________________
जम्माइपत्थावो। कंचीविसयाओ कुंतलम्मि तत्तो य मज्झदेसम्मि । जुवदिट्ठीओ तयंगे पहियव्व चिरं पयति ॥४०९॥ अह अन्नया य सा सहयरीहिं सहिया गया निउज्जाणं । निसुणइ गिज्जतं किंनरीहिं गाहाजुयं एय।।४१०॥ सिरिसुपइटनराहिवविसालकुलगयणभूसणससको। सयलकलाकलहंसीलीलाकमलायरो कुमरो ॥४११॥ नामेण सुपासो सयलसुहयसिरसेहरो गुणाणुयही । तरुणियणहिययहरणोधनाए इमो वरो होही ॥४१२॥ सा एवं निसुणंती कुमारगुणकित्तणं तहिं बाला । ईसाइएण नूणं मयणेण सरेहिं संविद्धा ॥४१३॥ तत्तो य तेहिं सा कीलियब सुत्तव्य अहव मत्तव्य । गाढं निमीलियनयणा मुच्छाविहलंघला जाया४१४ गयचेयन्ना न सहीणं उत्तरं देइ किंपि पुढावि । ताओवि संभंताओ चिंतंति अहो किमेयंति ॥४१५॥ अइउसिणूसासेहिं देहे दाहोत्ति मन्नमाणीओ । कमलिणिदलेहि सेज्जं विरयंति कहंति य पिऊणं॥४१६॥ हा दिव ! कहमकंडे मह दंडो पाडिओ तए सहसा । इच्चाइ पलवमाणी समागया चंदवयणावि ॥४१७॥ तत्तो य देहदाहस्स कारण पुच्छिओ सहीवग्गो । सव्वोवि जा न साहइ ता निग्गंतूण एगंते ॥४१८॥ पुट्ठा वियक्खणा नाम सहयरी, तीइ साहियं सव्वं । जह सिरिसुपासकुमरेऽणुरत्तचित्ता इमा नूणं॥४१९॥ जं उजाणे एयाए निसुणिओ किंनरीए गिजंतो । सो सिरिसुपासकुमरो एयावत्था तओ जाया॥४२०॥ तो देवी गंतूणं साहइ सव्वंपि वइयरं रन्नो । तेणवि पहिहियएण जंपियं वयणमेयंति ॥४२१॥ जह पुव्वंपि ममेसो संकप्पो आसि जह इमा धूया । देया सुपासकुमरस्स संपयं लट्ठयं विहिणा ॥४२२॥ काञ्चीविषयात्कुन्तले ततश्च मध्यदेशे । युवदृष्टयस्तदङ्गे पथिका इव चिरं प्रवर्तन्ते ॥४०९॥ अथान्यदा च सा सहचरीभिः सहिता गता निजोद्याने । शृणोति गीयमानं किन्नरीभिर्गाथायुगमेतत् ॥४१०॥ श्रीसुप्रतिष्ठनराधिपविशालकुलगगनभूषणशशाङ्कः । सकलकलाकलहंसीलीलाकमलाकरः कुमारः ॥४११॥ नाम्ना सुपार्श्वः सकलसुभगशिरःशेखरो गुणानामुदाधिः। तरुणीजनहृदयहरणोधन्याया अयं वरो भविष्यति।।४ १२॥ सैतच्छृण्वती कुमारगुणकीर्तनं तस्मिन् बाला । ईष्यायितेन नूनं मदनेन शरैः संविद्धा ॥४१३॥ ततश्च तैः सा कीलितेव सुप्तेवाथवा मत्तेव | गाढनिमीलितनयना मूर्छाविशृङ्खला जाता ॥४१४॥ गतचैतन्या न सखीनामुत्तरं ददाति किमपि पृष्टापि । ता अपि संभ्रान्ताश्चिन्तयन्ति अहो किमेतदिति ? ॥४१५॥ अत्युष्णोच्छासदेहे दाह इति मन्यमानाः । कमलिनीदलैः शय्यां विरचयन्ति कथयन्ति च पितरौ ॥४१६॥ हा दैव ! कथमकाण्डे मम दण्डः पातितस्त्वया सहसा । इत्यादि प्रलपन्ती समागता चन्द्रवदनापि ॥४१७॥ ततश्च देहदाहस्य कारणं पृष्टः सखीवर्गः । सर्वोऽपि यावन्न कथयति तावन्निर्गत्यैकान्ते ॥४१८॥ पृष्टा विचक्षणा नाम सहचरी, तया कथितं सर्वम् । यथा श्रीसुपार्श्वकुमारेऽनुरक्तचित्तेयं नूनम् ॥४१९॥ यदुद्याने एतया श्रुतः किन्नर्या गीयमानः । स श्रीसुपार्श्वकुमार एतदवस्था ततो जाता ॥४२०॥ ततो देवी गत्वा कथयति सर्वमपि व्यतिकरं राज्ञे । तेनापि प्रहृष्टहृदयेन जल्पितं वचनमेतदिति ॥४२१॥ यथा पूर्वमपि ममैष संकल्प आसीद्ययं दुहिता । देया सुपार्श्वकुमाराय सांप्रतं मनोहरं विधिना ॥४२२॥
१ ख. एईए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org