________________
सुपासनाह-चरिअम्मितत्थेव ठिओ किंपि सुंदरं सो विभावर हिअए। तं किंकरव्व देवा सव्वंपि हु तस्स उवणिति ॥३९५॥ अह अन्नया य सुपइटनरवई जाव चिटइ निविट्ठो । अत्थाणे नमिऊणं ता पडिहारीए विण्णत्तो।।३९६॥ देव ! दुवारे अमरावईओ रिउमदणस्स वरदूओ । नरनाहं दठ्ठमणो ता करणिजं समाइससु ॥३९७॥ तो रन्ना भूसन्नाणुमयपवेसेण तेण सहसावि । निग्गंतृणं करवालभासुरा पुणरवि पविट्ठा ॥३९८॥ सोवि महीयलगयमउलिमंडलो पणमिऊण नरनाहं । तक्खणमुवणीए विट्ठरम्मि साणंदमुवविठ्ठो ॥३९९॥ अह सरलाए संभूसिऊण दिट्ठीए सायरं पुट्ठो।जह कुसलं तुह पहुणो कोवाऽऽगमणम्मि तुह हेऊ॥४००॥ विणओणएण सिररइयअंजलिं अह नरेण पडिभणियं । देवयसाएण सया कुसल चिय सामिसालस्स॥४०१॥ आगमणकारणं पुण रणभरसोंडीर! निसुणसु ममेयं । जेणं तुम्ह सयासे नियपहुणा पेसिओ अहयं ॥४०२॥ अत्थि इह अम्ह पहुणो देवी नामेण चंदवयणत्ति । सयलावरोहसिररयणविन्भमा विन्भमब्भहिया ॥४०३॥ तीसे य सुया पवरा सोमा नामेण गुणमहग्यविया । अहिदेवयव सोहग्गयाए सव्वंगरमणीया ॥४०॥ अह जोव्वणं पवन्ना कलाकलावेण सह सरीरेण । ससहरकलव्व पइदिणपवन्नसविसेसलायन्ना ॥४०५॥ जत्तो विलोलपम्हलधवलाई वलंति तारनयणाई । तत्तो चिय पंचसरो कुंडलियधणू पहावेइ ॥४०६॥ सी चदकलाओ चुन्निऊण आलोडिऊण अमएण । मन्ने अणंगसंजीवणोसही निम्मिया विहिणा ॥४०७॥ एयं मणुन्नं एयं च सुंदरं सलहणिज्जमेयंति । इय भाविन्तो तत्तिं न लहइ लोओ तयंगेसुं ॥४०८॥
भोजनविलासमन्जनमण्डपपरिमण्डितो मनोऽभिरामः । यः प्रकटमाखण्डलविमानमानमपि खण्डयति ॥३९४॥ तत्रैव स्थितो यत्किमपि सुन्दरं स विभावयति हृदये । तत् किङ्करा इव देवाः सर्वमपि हि तस्योपनयन्ति ॥३९॥ अथान्यदा च सुप्रतिष्ठनरपतिवित्तिष्ठति निविष्टः । आस्थाने नत्वा तावत्प्रतीहार्या विज्ञप्तः ॥३९६॥ देव ! द्वारेऽमरावतीतो रिपुमर्दनस्य वरदूतः । नरनाथं द्रष्टुमनास्तस्मात्करणीयं समादिश ॥३९७॥ तती राज्ञा भ्रूसंज्ञानुमतप्रवेशेन तेन सहसापि । निर्गत्य करवालभासुरा पुनरपि प्रविष्टा ॥३९८॥ सोऽपि महीतलगतमौलिमण्डलः प्रणम्य नरनाथम् । तत्क्षणमुपनीते विष्टरे सानन्दमुपविष्टः ॥३९९॥ अथ सरलया संभूष्य दृष्टया सादरं पृष्टः । यथा कुशलं तव प्रभोः को वाऽऽगमने तव हेतुः ? ॥४००॥ विनयावनतेन शिरोरचिताञ्जल्यथ नरेण प्रतिभणितम् । देवप्रसादेन सदा कुशलमेव स्वामिशालस्य(?) ॥४० १॥ आगमनकारणं पुना रणभरशैण्डीर ! शृणु ममैतत् । येन युष्माकं सकाशे निजप्रभुणा प्रेषितोऽहकम् ॥४०२॥ अस्तीहास्माकं प्रभोदेवी नाम्ना चन्द्रवदनेति । सकलावरोधाशरोरत्नविभ्रमा विभ्रमाभ्यधिका ॥४०३॥ तस्याश्च सुता प्रवरा सोमा नाम्ना गुणमहाधिता । अधिदेवतेव सौभाग्यस्य सर्वाङ्गरमणीया ॥४०४॥ अथ यौवनं प्रपन्ना कलाकलापेन सह शरीरेण । शशधरकलेव प्रतिदिनप्रपन्नसविशेषलावण्या ॥४०५॥ यतो विलोलपक्ष्मधवले वलतस्तारनयने । तत एव पञ्चशरः कुण्डलितधनुः प्रधावति ॥४०६॥ सा चन्द्रकलाश्चूर्णयित्वाऽऽलोड्यामृतेन । मन्येऽनङ्गसंजीवनौषधिनिर्मिता विधिना ॥४०७॥ एतन्मनोज्ञमेतच्च सुन्दरं श्लाघनीयमेतदिति । इति भावयंस्तृप्तिं न लभते लोकस्तदङ्गेषु ॥४०८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org