________________
सुरगिरिकूवक्खंभं जिणमज्जणसलिलसियवडाडोवं । भवजलहिजाणवत्तं जयइ जए माणुसं खेत्तं ॥१॥ तत्थ य जंबुद्दीवो वरकेवलनाणरयणकोडीहिं । लोयालोयव्वइयरमुज्जोयतो सया सहइ ॥२॥ तत्थ य खेत्तं भरहं तत्थवि लघृणं जत्थ दाहिणयं । मज्झिमखडं कंडंव जंति भविया जवेण सिवं ॥३॥ तत्थथि धन्नधणकणयकलियगुरुगामनयरसंकिन्नो। कासित्ति जणवओ जणमणाण संजणियगुरुहरिसो।४। तम्मि य मंगलनिलया गुरुवित्ता सूरबुहकविसमेया । अंबरसिरिव्व नवरं अणेयरिसिभूसियपएसा ॥५॥ विहिएककोसियपयं पडिमंदिरकेलिहंसरमणीया । पासायपहापडलच्छलेण जा हसइ अमर पुरिं ॥६॥ फणिवइकमढाहिवभुवणवासिदेवेहिं जीइ सयकालं । पिक्खिज्जइ परिहाविवरक्खित्तदिट्ठीहि वरसोहा ॥७॥ जत्थ य गयणंगणलग्गविमलपायारसिहरनियरेहिं । सकलंकोत्ति निरुद्धो न लहइ चंदोवि हु पवेसं ||८|| सा तिगचच्चरगोउरचकधवलहरजणियवरसोहा । वाणारसित्ति नयरी वित्थिन्ना अस्थि भुवणयले ॥९॥ जम्मि विसयाणुराओ निवस्स सजडत्तणं पसुवइस्स । परलच्छीअहिलासो हरिस्स पैक्खिसु विरुवत्तं॥१०॥ अह नवरि तत्थ दोसो जं किर गोसम्मि तरुणमिहुणाणं । केलीसुओ पयंपइ रयणीवीसंभभणियाइं ॥११॥ तत्यत्थि सयलदरियारिनियररमणीण अंसुजलहिम्मि । हवियजसरायहंसो सुपइट्ठो नाम नरनाहो ॥१२॥ जस्स समरेसु रेहइ हयगयमयमिलियपरिमलुग्गारा। देढपरियड्डियजयसिरिकेसकलावोव्व खग्गलया ॥१३॥ जस्स य चाइत्तं सँउणसंकुले रणभरम्मिवि गिहेवि । परलोयसाहणट्ठा रेहइ पयर्ड चिय जयम्मि ॥१४॥ ' सुरगिरिकूपस्तम्भं जिनमजनसलिलसितपटाटोपम् । भवजलधियानपात्रं जयति जगति मानुषं क्षेत्रम् ॥१॥ तत्र च जम्बूद्वीपो बरकेवलज्ञानरत्नकोटीभिः । लोकालोकव्यतिकरमुद्द्योतयन् सदा राजते ॥२॥ तत्र च क्षेत्रं भारतं तत्रापि लब्ध्वा यत्र दक्षिणकम् । मध्यमखण्डं काण्डमिव यान्ति भविका जवेन शिवम् ।।३।। तत्रास्ति धान्यधनकनककलितगुरुग्रामनगरसंकीर्णः । काशीति जनपदो जनमनसां संजनितगुरुहर्षः ॥४॥ तस्मिंश्च मङ्गलनिलया गुरुवित्ता शूरबुधकविसमेता । अम्बरश्रीरिव नवरमनेकर्षिभूषितप्रदेशा ॥५॥ विहितैककौशिकपदं प्रतिमन्दिरकेलिहंसरमणीया । प्रासादप्रभापटलच्छलेन या हसत्यमरपुरीम् ॥६॥ फणिपतिकमठाधिपभुवनवासिदेवैर्यस्याः सदाकालम् । प्रेक्ष्यते परिखाविवरक्षिप्तदृष्टिभिर्वरशोभा ॥७॥ यत्र च गगनाङ्गणलग्नविमलप्राकारशिखरनिकरैः । सकलङ्क इति निरुद्धो न लभते चन्द्रापि हि प्रवेशम् ॥८॥ सा त्रिकचत्वरगोपुरचक्रधवलगृहजनितवर शोभा । वाणारसीति नगरी विस्तीर्णास्ति भुवनतले ॥९॥ यस्यां विषयानुरागो नृपस्य सजडत्वं पशुपतेः । परलक्ष्म्यभिलाषो हरेः पक्षिषु विरूपत्वम् ॥१०॥ असौ नवरं तत्र दोषो यत्किल प्रभाते तरुणमिथुनानाम् । केलिशुकः प्रजल्पति रजनिविश्रम्भभणितानि ॥११॥ तत्रास्ति सकलदृप्तारिनिकररमणीनामश्रुजलधौ । स्नपितयशोराजहंसः सुप्रतिष्ठो नाम नरनाथः ॥१२॥ यस्य समरेषु राजति हतगजमदमिलितपरिमलोद्गारा । दृढपरिकृष्टजयश्रीकेशकलाप इव खड्गलता ॥१३॥ यस्य च त्यागित्वं शकुनसंकुले रणभरेपि गृहेपि । परलोकसाधनाथ राजति प्रकटमेव जगति ॥१४॥
१ क, पञ्चभिः कुलकम् ।२ ग. सउणाण य विरून । ३ ग. हह । ४ ग. सउल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org