________________
३२
सुपासनाह - चरिअम्म
जो विपणचरणो विगोत्तभेई न, मेइणिपईवि । न हु मायंगो, पज्जुन्न ओवि पडिपुन्नसयलंगो ।। १५ मित्ताणं उदयगिरी विबुहचओराण ससहरसमाणो । जो सूरो रिउतमसंतईए पहवो विगस्स || १६ || केलिकुलंब कलाणं गुणरयणाणं च रोहणगिरिव्व । जो दप्पणुञ्च छद्दसणाण लच्छीए जलहिव्व ॥ १७ जस्तारिनियररमणीओ लुटिए भूमणे अणुसयाओ । वच्छत्थलम्मि पयडंति अविरयं नयणजलहारं ||१८ तस्स य पुहई पुहइव्व पवरावत्ता सुवन्नकलिया य । सुपओहरा सुरयणा य पणइणी अस्थि बहुसस्सा ||१९ कुडलाणं चिहुराणं जीए सीमंतयस्य सरलस्स । पच्छापुरकरणेणं नीइव्व पदंसिया पइणो ||२०|| कलियं वरालएहिं नरवइभवणंव जीए भालयलं । विजियद्वमीस संकं नीसंकं हरइ हिययाई ॥ २१ ॥ वियसियकुवलयदलदीहविब्भमं जीए नयणजुयलंपि । अलिपडलेहिं भमुहानिहेण सेविज्जए निच्चं ||२२|| जीसे नासावसो सरलो रेहेइ कित्तिथंभोव्व । विहिणो अनन्नसमरूवपयडणुप्पन्नगव्वस्स ॥ २३ ॥ रइपीईण परुप्परईस/संजणियकलहभीएण । जीसे य सवणदोलाजुयंव मयणेण निम्मवियं ॥२४॥ सोहेइ मुहं जलहिज्व जीए लायन्नसलिलपडिपुन्न । सुरयणकलियं विदुमलयाहरं सस्सिरीयं च || २५ | जीसे य कंबुसम कंठकंदले साहइव्व लोयाणं । रेहातियं जयत्तयरमणीयणविजय परिसंखं ||२६|| जीए तणुम्मि आरूढमयणजोहस्स जुव्वणगयस्स | कुंभत्थलंव रेहइ पीणुन्नयक दिणसिहिणजुयं ||२७| कोमलमुणालनाले जीए रेहंति बाहुजुयलम्मि । कमलाईव कोमलकरयलाई सरलंगुलिदलाई ||२८|| यो विबुधप्रणतचरणोपि गोत्रभेदी न, मेदिनीपतिरपि । न हि मातङ्गः, प्रद्युम्नकोपि परिपूर्णसकलाङ्गः ।। १५ ।। मित्राणामुदयगिरिर्विबुधचकोराणां शशधरसमानः । यः सूरो रिपुतमः संततेः प्रभवह्निवर्गस्य ॥ १६ ॥ केलिकुलमिव कलानां गुणरत्नानां च रोहणगिरिरिव । यो दर्पण इव षड्दर्शनानां लक्ष्म्या जलधिरिव ||१७| यस्यारिनिकररमण्यो लुटते भूषणेऽनुशयात् । वक्षःस्थले प्रकटयन्त्यविरतं नयनजलधाराम् ॥ १८ ॥ तस्य च पृथिवी पृथिवीव प्रवरावर्त्ता सुवर्णकलिता च । सुपयोधरा सुरत्ना च प्रणयिन्यस्ति बहुशस्या | १९| कुटिलानां चिहुराणां यस्याः सीमन्तकस्य सरलस्य । पश्चात्पुरः करणेन नीतिरिव प्रदर्शिता पत्युः ||२०|| कलितं वरा (वरजा) लकैर्नरपतिभवनमिव यस्या भालतलम् । विजिताष्टमीशशाङ्कं निःशङ्कं हरति हृदयानि||२१| विकसितकुवलयदलदीर्घविभ्रमं यस्या नयनयुगलमपि । अलिपटलै भ्रूनिभेन सेव्यते नित्यम् ||२२|| यस्या नासावंशः सरलो राजते कीर्तिस्तम्भ इव । विधेरनन्यसमरूप प्रकटनोत्पन्नगर्वस्य ॥ २३ ॥ रतिप्रीत्योः परस्परेर्ष्यासंजनितकलहभीतेन । यस्याश्च श्रवणदोलायुगमिव मदनेन निर्मापितम् ॥ २४॥ शोभते मुखं जलधिरिव यस्या लावण्यसलिलपरिपूर्णम् । सुरत्नकलितं विद्रुमलताधरं सश्रीकं च ॥ २५॥ यस्याश्च कम्बुसमकण्ठकन्दले कथयतीव लोकानाम् । रेखात्रिकं जगत्त्रयरमणीजनविजय परिसंख्याम् ॥ २६॥ यस्यास्तनावारूढमदनयोधस्य यौवनगजस्य । कुम्भस्थलमिव राजते पीनोन्नतकठिनस्तनयुगम् ॥२७॥ कोमलमृणालनाले यस्या राजन्ति बाहुयुगले । कमलानीव कोमलकरतलानि सरलाङ्गुलिदलानि ॥ २८ ॥
१ विबुधाः = देवाः पर्वताश्च । २ गोत्रः = पर्वतः वंशश्च । ३ मेदिनी - पृथिवी, मातङ्गी च ४ प्रद्युम्नकः अनङ्गः, प्रकृष्टं द्युम्नं धनं यस्य स च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org