________________
पुव्वभवपत्थावा।
भोयणहेउ कोमलगिराहिं सिद्धिं पबोहिउँ लग्गा। जावन तीसे पच्चुत्तरंपि सो देइ सावि तओ ॥१८६॥ रुटोत्ति मन्नमाणी सिणेहसारं पयंपिउं जाव । सच्चवइ संमुहं ताव भग्गं तारायणं नियइ ॥१८७।। तो एस मउत्ति विणिच्छिऊण पिहिऊण तह घरदुवारे । मह भोयणं विइन्न सयंच भुत्तं तओ तीए ॥१८८॥ कहियं मह जह भत्ता एसो तिलतुसतिभागमेतपि। कहवि न कस्सविदितों अंतं पंतं च भुंजंतो॥१८९॥ एत्तियकाला इण्हि उक्खुडियं सालिमाइयं नाउं । तुह जोग्गं तो सहसा पुणो पुणो कुट्टियं हिययं ॥१९०॥ सुत्तोच्चिय सिज्जाए मओ अपुत्तो इमो य इह आसि । चउकोडिसामिओ भाय ! ता जहा जाइ नो दव्वं॥१९१॥ रायउले, तमुवायं चिंतेमो किंपि सो इमो चेव । घरमज्झिच्चिय सिट्ठी खिप्पउ उंडाए खड्डाए ॥१९२॥ काऊण किंपिकवडं न मुणिज्जइ जहवहिं इमो अत्थो । इय निच्छिऊण तीए मए यजहचिंतियं विहियं ॥१९३॥ अह तीए महभिमुहं भणियं जह अज्ज निसि पसुत्ताए। दिटुं सुमिणं तयणुसारओ हं मुणेमि इमं ।।१९४॥ जह होही मह पुत्तो ता भाय ! तुम इहेव हट्टम्मि । ववहरमाणो चिट्ठसु जाहं पसवामि, इय सोउं॥१९५॥ तीसे उवरोहेणं तहत्ति पडिवज्जियंमए सव्वं । सावि हु कयसिंगारा सहीण पुरओ इमं कहइ ॥१९६॥ वद्धाविज्जह तुर्कमे सिंघलदीवम्मि जाई वहाणाइं । तुम्हाण भइणिवइणो अवतित्थगयाइं निसुयाई ॥१९७।। महपइपुन्नवसेणं वेलाकूलम्मि ताई पत्ताइं । तो तयभिमुहो सिट्ठी हरिसेण सयं गओ इण्हि ॥१९८॥ इय पयदंती सव्वं गमेइ दियहाई सिट्टिणी हिट्ठा । अहमवि घरवावारं सव्वं चिंतेमि एत्तो य ॥१९९।। भोजनहेतोः कोमलगीर्भिः श्रेष्ठिनं प्रबोधयितुं लग्ना । यावन्न तस्यै प्रत्युत्तरमपि स ददाति सापि ततः ॥१८६॥ रुष्ट इति मन्यमाना स्नेहसारं प्रजल्प्य यावत् । पश्यति संमुखं तावद् भग्नं ताराकणं पश्याति ।।१८७॥ तत एष मृत इति विनिश्चित्य पिधाय तथा गृहद्वारम्। मह्यं भोजनं वितीर्ण स्वयं च भुक्तं ततस्तया॥१८८।। कथितं मम यथा भर्तष तिलतुषत्रिभागमात्रमपि । कथमपि न कस्यापि दददन्तं प्रान्तं च भुञ्जानः ॥१८९॥ एतावत्कालादिदानी रन्धितं शाल्यादिकं ज्ञात्वा । तव योग्यं ततः सहसा पुनः पुनः कुट्टितं हृदयम् ॥१९॥ सुप्त एव शय्यायां मृतोऽपुत्रोऽयं चेहासीत् । चतुष्कोटिस्वामी भ्रातः ! तस्माद्यथा याति नो द्रव्यम् ॥१९१॥ राजकुले, तमुपायं चिन्तयामः कमपि सोऽयमेव । गृहमध्य एव श्रेष्ठी क्षिप्यतां गभीरे गर्ने ॥१९२॥ कृत्वा किमपि कपटं न ज्ञायते यथावध्ययमर्थः । इति निश्चित्य तया मया च यथाचिन्तितं विहितम् ॥१९३॥ अथ तया मदभिमुखं भणितं यथाऽऽर्य ! निशि प्रसुप्तया । यो दृष्टः स्वप्नस्तदनुसारतोऽहं जानामीदम् ॥१९४॥ यथा भविष्यति मम पुत्रस्तस्माद् भ्रातस्त्वमिहैव हट्टे । व्यवहरंस्तिष्ठ यावदहं प्रसूय इति श्रुत्वा ॥१९॥ तस्या उपरोधेन तथेति प्रतिपन्नं मया सर्वम् । सापि खलु कृतशृङ्गारा सखीनां पुरत इदं कथयति ॥१९६॥ वर्धाप्यध्वे यूयं सिंहलद्वीपे यानि यानानि । युष्माकं भगिनीपतेरपतीर्थगतानि श्रुतानि ॥१९७॥ मत्पतिपुण्यवशेन वेलाकूले तानि प्राप्तानि । ततस्तदभिमुखः श्रेष्ठी हर्षेण स्वयं गत इदानीम् ॥१९८॥ इति प्रकटयन्ती सर्वं गमयति दिवसानि श्रेष्ठिनी हृष्टा । अहमपि गृहव्यापारं सर्वं चिन्तयामि, इतश्च ॥१९९॥
१क. जह।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org