________________
१९६
मंतितिलयकहा। माणुस्सम्मिवि दारिदवाहिदोहग्गदुक्खसंतत्तो । विसयासानडिओ अणुवलद्धविसओ गमइ कालं ॥२९॥ अह कहवि लहइ विसए तस्सेवाए विवड्ढए अहियं । विसयहिलासो, तित्ती य नेय, तेसिं असंपत्ती॥३०॥ होइ कयाइ अवस्सं तो सुमरंतो निसेविए पुब्धि । अरईइ तीइ घिप्पइ जीइ न निदपि पावेइ ॥३१॥ देवत्तेवि महढियइड्ढीईसा दुणेइ इयरेवि । अभियोगियकिव्विसिया पुण भंडं चैव दुक्खाण ॥३२।। तथा च ते शोचन्ति;-- एगगुरुणो सयासे तवमणुचिन्नं मए इमेणावि । हद्धी ! मज्झ पमाओ फलिओ एयस्स अपमाओ॥३३॥ तथा;-- देवत्तणि तुल्लेवि परु जं आणवइ सरोसु । कि किज्जइ तसु वइरियह धम्मपमायह दोसु ॥३४॥ तिरियनरसुरभवेसुं विसयासेवाए जो सुहाभासो । सोवि अपत्थं पच्छा दितो गुरुदुक्खदंदोलिं ॥३५॥ एवं च निरंतरदुहपरंपरापरिगयम्मि संसारे । जिणदेसिए कयंते भणियमणुट्ठह भवकयंते ॥३६॥ भणइ निवो एवमिणं किंतु विसेसेण कारणं तुम्ह । वेरग्गे जं जाय तं साहह, तो मुणी कहइ ॥३७॥ ___ अस्थि नयरं पसिद्धं सिद्धपुरं नाम तत्थ नरनाहो । नामेण भुवणसारो भज्जा तस्मत्थि कणयसिरी ॥ अवितहअभिहाणो तस्स अस्थि मइसागरोत्ति वरमंती । दाहिणदेसाओ अहन्नयागओ तत्थ समुदाओ। गंधव्वियआउजियनचणिमाईण तस्स अत्थाणे । पडिहारसूइओ तेण काउं पेक्खणयमारद्धं ॥४०॥ अपुव्वपेकखणेक्खणहेउं कंचुइमुहेण नरनाहो । अंतेउरेण विनाविओ तयं तेणणुनायं ॥४१॥
तिर्यक्त्वेऽपि वाहनदहनाङ्कनकर्णकर्तनादीनि । अनुभवति विविधदुःखानि क्षुत्पिपासापरिश्रान्तः ॥२८॥ मानुष्येऽपि दारिद्रयव्याधिदौर्भाग्यदुःखसंतप्तः । विषयाशानटितोऽनुपलब्धविषयो गमयति कालम् ॥२९॥ अथ कथमपि लभते विषयांस्तत्सेवया विवर्धतेऽधिकम् । विषयाभिलाषः, तृप्तिश्च नैव, तेषामसंप्राप्तिः ॥३०॥ भवति कदाचिदवश्यं ततः स्मरन्निषेवितान् पूर्वम् । अरत्या तया गृह्यते यया न निद्रामपि प्राप्नोति ॥३१॥ देवत्वेऽपि महद्धिका दुनोतीतरेऽपि । अभियोगिककिल्विषिकाः पुनर्भाण्डमेव दुःखानाम् ॥३२॥ एकगुरोः सकाशे तपोऽनुचर्णि मयाऽनेनापि । हा धिग् ! मम प्रमादः फलित एतस्याप्रमादः ॥३३॥ देवत्वे तुल्येऽपि परो यदाज्ञापयति सरोषः । किं क्रियते तस्य वैरिणो धर्मप्रमादो दोषः ॥३४॥ तिर्यग्नरसुरभवेषु विषयासेवायां यः सुखाभासः । सोऽप्यपथ्यं पश्चाद् ददद् गुरुदुःखद्वन्द्वालीम् ॥३५॥ एवं च निरन्तरदुःखपरम्परापरिगते संसारे । जिनदेशिते कृतान्ते भणितमनुतिष्ठत भवकृतान्ते ॥३६॥ भणति नृप एवमिदं किन्तु विशेषेण कारणं युष्माकम् । वैराग्ये यज्जातं तत्कथयत, ततो मुनिः कथयति ॥ अस्ति नगरं प्रसिद्धं सिद्धपुरं नाम तत्र नरनाथः । नाम्ना मुवनसारो भार्या तस्यास्ति कनकधीः ॥३८॥ अवितथाभिधानस्तस्यास्ति मतिसागर इति वरमन्त्री । दक्षिणदेशादथान्यदाऽऽगतस्तत्र समुदायः ॥३९॥ गान्धर्विकातोदिकनर्तन्यादीनां तस्यास्थाने । प्रतिहारसूचितस्तेन कर्तुं प्रेक्षणकमारब्धम् ॥४०॥ अपूर्वप्रेक्षणेक्षणहेतोः कञ्चुकिमुखेन नरनाथः । अन्तःपुरेण विज्ञपितस्तत् तेनानुज्ञातम् ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org