________________
मक्खरादयकहा।
जओ। दिव्वस्स मत्थए पाडिऊण सव्वं सहंति काउरिमा । दिव्वोवि ताण संकइ जाणं तेओ परिप्फुरइ।।१९४॥ ता मा मुयसु महायस ! उच्छाहं भुवणपसरियपयाव ! । इय मज्झत्थो तं जाव ताव अन्नो परिप्फुरइ ॥ तं कत्थ गयं तुह नाह ! पोरिसं गरुयसत्तुनिट्टवणं । इयरेणेव सहिज्जइ जमियं दुक्खाण रिंछोली ? ॥ आयन्निऊण वयणं कणगवईए तओ भणइ कुमरो। दिव्वस्सव अदिट्ठस्स अरिणो इह करउ किं पुरिसो?॥ इय भणि रयणीए अपमत्तो जाव चिट्ठए ताव । सो पत्तो तो धरि पाएसं भामिउं गयणे ॥१९८॥ अफ्फालिस्सइ धरणीए जाव ता तेण विरसमारसियं । रक्खसु कुमार ! रक्वसु खमसु इमे मज्झ अवराहे॥ न पुणो एवं काहं तुज्झाहं किंकरो तओ तेण । मुक्को दयाए खयरो दीणेसु न दारुणा गरुया॥२०॥ आसमपयम्मि पुणरवि पत्ताई दोवि कुलवइसमीवं । कइवयदिणाई तत्थवि तावसनेहेण ठायंति ॥२०१॥ कणगवईवि हु मह तावसीहिं कीलेइ विविहकीलाहिं । कुमरो कुलवइपासे निसुणेइ य धम्मसत्थाई ॥ अह कुलवइमन्नदिणे कुमरो विनवइ मज्झ बसणमिणं । पहु ! परमूसवभावेण परिणयं तुम्ह दंसणओ ॥ कत्थन्नह विद्याहारसूयरो कत्थ सालिदहिभत्तं । कहमेस विसयगिद्धो जणो कहि तुम्ह पयसेवा ? ॥२०४॥ किंतु करिस्सइ अधिइं ताओ ता लहउ तुह पसायाओ। समयंतरम्मि तुहवयणअमयपाणं जणो एसो ॥ तो भणइ कुलवई विणयवित्तिकुलभवण ! जीवसु चिरं तं । आसंसेमो अन्नं किं तुह गुणलच्छिकमलस्स ?॥
यतः । दैवस्य मस्तके पातयित्वा सर्व सहन्ते कापुरुषाः । दैवमपि तेभ्यः शकते येषां तेजः परिस्फुरति ॥१९४॥ तस्माद् मा मुश्च महायशः ! उत्साहं भुवनप्रसृतप्रताप ! । इति मध्यस्थस्त्वं यावत्तावदन्यः परिस्फुरति॥१९॥ तत् कुत्र गतं तव नाथ ! पौरुषं गुरुशत्रुनिष्ठापनम् । इतरेणेव सद्यते किमियं दुःखानां पति : ? ॥१९६।। आकर्ण्य वचनं कनकवत्यास्ततो भणति कुमारः । दैवस्येवादृष्टस्यारेरिह करोतु किं पुरुषः ॥१९७।। इति भणित्वा रजन्यामप्रमत्तो यावत् तिष्ठति तावत् । स प्राप्तस्ततो धृत्वा पादयोधमयित्वा गगने ॥१९८॥ आस्फालयिष्यति धरण्यां यावत्तावत्तेन विरसमारसितम् । रक्ष कुमार ! रक्ष क्षमस्वेमान् ममापराधान् ॥१९९।। न पुनरेवं करिष्ये तवाहं किङ्करस्ततस्तेन । मुक्तो दयया खचरो दीनेषु न दारुणा गुरवः ॥२०॥ आश्रमपदे पुनरपि प्राप्तौ द्वौ कुलपतिसमीपम् । कतिपयदिनानि तत्रापि तापसस्नेहेन तिष्ठतः ॥२०१॥ कनकवत्यंपि खलु सह तापसीभिः क्रीडति विविधक्रीडाभिः । कुमारः कुलपतिपार्श्वे शृणोति च धर्मशास्त्राणि।। अथ कुलपतिमन्यदिने कुमारो विज्ञपयति मम व्यसनमिदम् । प्रभो ! परमोत्सवभावेन परिणतं तव दर्शनतः ॥ क्वान्यथा विष्ठाहारसूकरः क्व शालिदाधिभक्तम् । कथमेष विषयगृद्धो जनः क्व युष्माकं पादसेवा ? ॥२०४॥ किन्तु करिष्यत्यधृति तातस्तस्माल्लभतां तव प्रसादात् । समयान्तरे त्वद्वचनामृतपानं जन एषः ॥२०॥ ततो भणति कुलपतिर्विनयवृत्तिकुलभवन ! जीव चिरं त्वम् । आशंसामोऽन्यत् किं तक गुणलक्ष्मीकमलस्य।
१ग, वयणवि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org