________________
तत्त्वनिर्णयप्रासादविधिदृष्टेन यज्ञेन धर्मेणाव्यसनेन तु ॥ यज्ञबीजैः सुरश्रेष्ठ त्रिवर्गपरिमोषितैः॥१४॥ एष यज्ञो महानिद्रः स्वयंभुविहितः पुरा॥ एवं विश्वभुगिंद्रस्तु ऋषिभिस्तत्त्वदर्शिभिः॥ उक्तो न प्रतिजग्राह मानमोहसमन्वितः॥१५॥ तेषां विवादः सुमहान् जज्ञे इंद्रमहर्षिणाम् ॥ जंगमैः स्थावरैः केन यष्टव्यमितिचोच्यते ॥१६॥ ते तु खिन्ना विवादेन शक्त्या युक्ता महर्षयः ॥
संधाय सममिन्द्रेण पप्रच्छुः खचरं वसुम् ॥ १७॥ (ऋषयऊचुः) महाप्राज्ञ त्वया दृष्टः कथं यज्ञविधिर्नुप॥
औत्तानपादे प्रब्रूहि संशयं नस्तुद प्रभो॥१८॥ (सूतउवाच)
श्रुत्वा वाक्यं वसुस्तेषामविचार्य बलाबलम् ॥ वेदशास्त्रमनुस्मृत्य यज्ञतत्वमुवाच ह ॥ १९॥ यथोपनीतैर्यष्टव्यमिति होवाच पार्थिवः॥ यष्टव्यं पशुभिर्मेध्यैरथ मूलफलैरपि ॥२०॥ हिंसास्वभावो यज्ञस्य इति मे दर्शनागमः॥ तथैते भाविता मंत्रा हिंसालिंगा महर्षिभिः ॥२१॥ दीपेण तपसा युक्तैस्तारकादिनिदर्शिभिः॥ तत्प्रमाणं मया चोक्तं तस्माच्छमितुमर्हथ ॥२२॥ यदि प्रमाणं स्वान्येव मंत्रवाक्यानि वो द्विजाः॥ तथा प्रवर्त्ततां यज्ञो ह्यन्यथा मानृतं वचः ॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org