________________
पञ्चमस्तम्भः। आत्मज्ञानस्वभावेन स्वयं मननसंभवात् ॥ स्वकर्मणश्च संभूतेः स्वयंभूर्जीव उच्यते ॥५॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥ न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥६॥ अच्छेद्योयमभेद्योयं निरुपाख्योयमुच्यते॥ नित्यः सर्वगतः स्थाणुरचलोयं सनातनः॥७॥ सोक्षरः स च भूतात्मा संप्रदायः स उच्यते ॥ स प्राणः स परं ब्रह्म सो हंसः पुरुषश्च सः॥८॥ नान्यस्तस्मात्परो द्रष्टा श्रोता मन्तापि वा भवेत्॥ न कर्ता न च भोक्तास्ति वक्ता नैवात्र विद्यते ॥९॥ चेतनोध्यवसायेन कर्मणा स निबध्यते ततोभवस्तस्य भवेत्तदभावात्परं पदम् ॥१०॥ उद्धरेद्दीनमात्मानमात्मानमवसादयेत्॥ आत्मा चैवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥११॥ संतुष्टानि च मित्राणि संक्रुद्धाश्चैव शत्रवः॥ नहि मे तत् करिष्यन्ति यन्न पूर्व कृतं मया ॥१२॥ शुभाशुभानि कर्माणि स्वयं कुर्वन्ति देहिनः ॥ स्वयमेवोपकुर्वन्ति दुःखानि च सुखानि च ॥१३॥ वने रणे शत्रुजनस्य मध्ये ___ महार्णवे पर्वत मस्तके वा ॥ सुप्तं प्रमत्तं विषमस्थितं वा
रक्षन्ति पुण्यानि पुराकृतानि ॥ १४ ॥ व्याख्या-पुरुषवादी कहते हैं कि-पुरुष, आत्मा, एवशब्द अवधारणमें है, सो कर्म और प्रधानादिके व्यवच्छेदार्थ है, यह सर्व प्रत्यक्ष वर्तमान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org