________________
NA
तत्वनिर्णयप्रासादतत्र कृत्वा जलक्रीडां तदब्जकृतशेखरा ॥ उपविष्टा ततस्तस्य तीरे देवी सखीयुता ॥३०॥ पातुकामा च तत्तोयं स्वादुनिर्मलपङ्कजम् ॥ अपश्यन् कत्तिकाः स्नाताः षडर्कद्युतिसन्निभम् ॥३१॥ पद्मपत्रे तु तद्वारि गृहीत्वोपस्थिता गृहम् ॥ हर्षादवाच पश्यामि पद्मपत्रे स्थितं पयः ॥ ३२॥ ततस्ता ऊचुरखिलं कृत्तिका हिमशैलजम् ॥
॥ कत्तिका ऊचुः॥ दास्यामो यदि ते गर्भः संभूतो यो भविष्यति ॥३३॥ सोऽस्माकमपि पुत्रः स्यादस्मन्नाना च वर्तताम् ॥ भवेल्लोकेषु विख्यातः सर्वेष्वपि वरानने! ॥३४॥ इत्युक्तोवाच गिरिजा कथं मगात्रसंभवः ॥ सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत् ॥३५॥ ततस्तां कत्तिका ऊचुर्विधास्यामोऽस्य वै वयम् ॥ उत्तमान्युत्तमाङ्गानि यद्येवं तु भविष्यति ॥ ३६॥ उक्ता वै शैलजा प्राह भवत्वेवमनिन्दिताः ॥ ततस्ता हर्षसंपूर्णाः पद्मपत्रस्थितं पयः ॥३७॥ तस्यै ददुस्तया चापि तत्पीतं क्रमशो जलम् ॥ पीते तु सलिले तस्मिस्ततस्तस्मिन् सरोवरे ॥ ३८॥ विपाट्य देव्याश्च ततो दक्षिणां कुक्षिमुद्गतः ॥ निश्चक्रामाऽद्भुतो बाल: सर्वलोकविभासकः ॥ ३९॥ प्रभाकरप्रभाकारः प्रकाशकनकप्रभः ॥ गृहीतनिर्मलोदनशक्तिशूलः षडाननः ॥ ४० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org