________________
तत्वनिर्णयप्रासादज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्थिते ॥ न निवर्तयितुं शक्यः शापः किंतु ब्रवीमि ते ॥९॥ शीघ्रमेष्यसि मानुष्यात् स त्वं कामसमन्वितः॥ शिरसा तु ततो वन्द्य मातरं पूर्णमानसः ॥ उवाचार्चितपूर्णेन्दुद्युतिं च हिमशैलजाम् ॥ १० ॥
॥ वीरक उवाच ॥ नतसुरासुरमौलिमिलन्मणिप्रचयकान्तिकरालनखाड़िते ॥ नगसुते! शरणागतवत्सले! तव नतोऽस्मि नतार्त्तिविनाशिनि११ तपनमण्डलमण्डितकन्धरे! पृथुसुवर्णसुवर्णनगद्युते!॥ विषभुजङनिषङ्गविभूषिते! गिरिसुते! भवतीमहमाश्रये ॥ १२॥ जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते अवती यथा ॥ जगति काञ्चनवाञ्छतिशंकरोभुवनधृतनये! भवतीं यथा ॥ १३॥ विमलयोगविनिर्मितदुर्जयस्वतनुतुल्यमहेश्वरमण्डले! ॥ विदलितान्धकबान्धवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता ॥१४॥ सितसटापटलोडतकंधराभरमहामृगराजरथा स्थिता ॥ विमलशक्तिमुखानलपिडलायतभुजौघविपिष्टमहासुरा ॥ १५॥ निगदिता भुवनैरिति चण्डिका जननि! शुम्भनिशुम्भनिषदनी ॥ प्रणतचिन्तितदानवदानवप्रमथनकरतिस्तरसा भुवि ॥ १६॥ वियति वायुपथे ज्वलनोज्ज्वलेऽवनितले तव देवि! चयद्वपुः ॥ तदजितेप्रतिमे प्रणमाम्यहं भुवनभाविनि! ते भववल्लभे ॥ १७॥ जलधयो ललितोद्धवतीचयो हुतवहद्युतयश्च चराचरम् ॥ फणसहस्रभूतश्च भुजङ्गमास्त्वदभिधास्यति मय्यभयंकरा ॥१८॥ भगवति! स्थिरभक्तजनाश्रये! प्रतिगतो भवतीचरणाश्रयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org