________________
૬૮
तत्वनिर्णयप्रासाद
भुजङ्गरूपं संत्यज्य बभूवाथ महासुरः ॥ उमारूपी छलयितुं गिरिशं मूढचेतनः ॥ २४ ॥ कृत्वा मायां ततो रूपमप्रतर्क्यमनोहरम् ॥ सर्वावयवसंपूर्ण सर्वाभिज्ञानसंवृतम् ॥ २५ ॥ कृत्वा मुखान्तरे दन्तान् दैत्यो वज्ञोपमान् दृढान् ॥ तीक्ष्णाग्रान् बुद्धिमोहेन गिरिशं हन्तुमुद्यतः ॥ २६ ॥ कत्वोमारूपसंस्थानं गतो दैत्यो हरान्तिकम् ॥ पापो रम्याकतिश्चित्रभूषणाम्बरभूषितः ॥ २७ ॥ तं दृष्ट्वा गिरिशस्तुष्टस्तदालिङ्गय महासुरम् ॥ मन्यमानो गिरिसुतां सर्वैरवयवान्तरैः ॥ २८ ॥ अष्टच्छत् साधु ते भावो गिरिपुत्रि ! न कत्रिमः ॥ या त्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनि ! ॥ २९ ॥ त्वया विरहितं शून्यं मन्यमानो जगत्त्रयम् ॥ प्राप्ता प्रसन्नवदना युक्तमेवंविधं त्वयि ॥ ३० ॥ इत्युक्तो दानवेन्द्रस्तु तदाभाषत् स्मयञ्छनैः ॥ न चाबुध्यदभिज्ञानं प्रायस्त्रिपुरघातिनः ॥ ३१ ॥ ॥ देव्युवाच ॥
यातास्म्यहं तपश्चर्त्तु वलभ्यायतवातुलम् ॥ रतिश्च तत्र मे नाभूत्ततः प्राप्ता त्वदन्तिकम् ॥ ३२ ॥ इत्युक्तः शंकरः शङ्कां कांचित् प्राप्यावधारयत् ॥ हृदयेन समाधाय देवः प्रहसिताननः ॥ ३३ ॥ कुपिता मयि तन्वङ्गी प्रकत्या च दृढवता || अप्राप्तकामा संप्राप्ता किमेतत् संशयो मम ॥ ३४ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org