________________
यं प्राप्ता पृथुना गुणातिशयिता लोकानवन्ती यतस्तत्पृथ्वीति भुवोऽवनीति च वरं नामार्थवत्तां गतम् ।। लोकालोचनयष्टितामुपगतो जैनीयधर्मध्वजः । सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः ॥६॥
चञ्चच्चन्द्रमरीचिसंचयसुधाधाराकरीन्द्रस्फुरत्कुन्दामन्दविकाशकैखलसन्मुक्ताहिमानीसमः ॥ यस्यास्मिन् भुवने यशः समुदयो विद्योतते सोऽनिशं । सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः ॥७॥
वन्द्यानामनृतेन वन्दनवचोवृन्देन संवन्दनादादेयानि सुगृह्णतेऽनवरतं दिङ्मण्डले कोविदाः ॥ नासत्यास्तुतिवागमुष्य बत तत्सत्यस्तुतेर्वादिने । सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः ॥८॥
न्यायांभोनिधिश्रीमदविजयानन्दाष्टकं सहृदयसमुदयमनसः प्रमुदनिदानं
पूर्णम् सदोदयताम्
। ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org