________________
( ८० )
जयति विजितान्यतेजाः, सुरासुराधीश सेवितः श्रीमान् । विमलखासविरहित, -स्त्रिभुवनचूडामणिर्भगवान् ॥ २८ ॥ वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः, वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः । वीरात्तीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो, वीरे श्रीधृतिकीर्तिकांतिनिचयः श्रीवीर ! भद्रं दिश ॥ २६ ॥ अवनितलगतानां कृत्रिमा कृत्रिमानां, वरभवनगतानां दिव्यवैमानिकानाम् । इह मनुजकृतानां देवराजार्चितानां, जिनवरभवनानां भावतोऽहं नमामि ॥ ३० ॥ सर्वेषां वेधसामाद्य, मादिमं परमेष्ठिनाम् । देवाधिदेवं सर्वज्ञ, श्रीवीरं प्रणिदध्महे ॥ ३१ ॥ देवोऽनेक भवार्जितोर्जितमहापापप्रदीपानलो, देवः सिद्धि वधू विशालहृदयालङ्कारहारोपमः । देवोऽष्टादशदोषसिन्धुरघटा निर्भेदपञ्चाननो, भव्यानां विदधातु वाञ्छितफलं श्रीवीतरागो जिनः ||३२|| ख्यातोऽष्टापदपर्वतो गजपदः समेतशैलाभिधः,
श्रीमान् रैवतकः प्रसिद्धमहिमा शत्रुञ्जयो मण्डपः । वैभारः कनकाचलोऽर्बुदगिरिः श्रीचित्रकूटादयस्तत्र श्री ऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ||३३|
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org