________________
विरचितम्]
भिन्नसङ्कलितम् रिंशदधिकशतत्रयलक्षणमपनयेत् । अधश्च लब्धं प्रागुक्तत्रिकोट्यादिघनमूलं सप्तदशाधि(क)त्रिशतलक्षणं३१७विधानमेतदित्यादि स्पष्टम् । आम्नायेन वा यस्य घनस्य त्रिकोट्यादेर्यन्मूलं सप्तदशाधि(क)त्रिशतलक्षणं तस्य ३१७ यो वर्ग एकलक्षचतुःशतएकोननवति१००४८९लक्षणस्तेन त्रिकोट्यादिघनस्य भागे दत्ते यथा {३३६१५९१३ } प्रथमं भागाङ्का अधस्त्रिकेण प्रसिद्धरीत्योपर्यभागापहारे ५ उपरि स्थिताङ्का यथा ७०३४२३ लब्धं चैकः स प्राग् लब्धं त्रिकाग्रेऽन्यत्र देयो यथाऽन्यत् ३१ अन्यत्र च स्थाप्यौ अधःस्थाङ्काश्च सञ्चार्यभागाकाधासप्तके नोपर्यभागापहारे यथा { १९३४२३ } । उपर्यङ्काः सर्वेऽपि गताः, लब्धं च सप्त ते प्राग्लब्धव्येकाग्रतो योज्या यथा ३१७ । एतच्च त्रिकोट्यादिघनमूलम् । एते सर्वत्र घनाङ्कानां वर्गेण भागे दत्ते घनमूलमायातीति स्थितम् । अत्रोद्देशकः श्लोकः
घनानां पूर्वलब्धानां, मूलानि वद कोविद !।
यद्यस्ति भवतः सम्य-गभ्यासः परिकर्मसु ॥ अस्य न्यासेन व्याख्या, यथा-१८।२७६४।१२५/२१६।३४३।५१२। ७२९।५८३२। ३८९०१७।३१८५५०१३ । एषामुत्तरं प्रागुक्तसङ्ख्यां कृत्वा १५ न्यासेनैव यथालब्धं मूलानि-१।२।३।४।५।६।७।८।९।१८।७३।३१७ । एवं घनमूलविधिः । एतत्समाप्त्या पूर्वाण्यष्टौ परिकर्माणि समाप्तानि ॥
भिन्नसङ्कलितम्अथ भिन्नसङ्कलिते करणसूत्रवृत्तार्धमाह
सदृशहरलवानां योजनं सम्प्रदिष्टं
हरविरहितराशेश्छेदकः कल्प्य एकः ॥' व्याख्या-प्राक् पूर्णरूपाणां सङ्कलितमुक्तम् । इदानीं भिन्नानां-खण्डितानां रूपाणां वक्ष्यमाणरूपार्धप्रभृतीनां सङ्कलितोपायमाह-सदृशेति । सदृशहराः-सदृशच्छेदाः अधोवर्त्यङ्का ये लवा-उपर्यङ्का अंशास्ते तथा तेषां संयोजन-संमीलनं यत् तद् भिन्नसङ्कलितं स्यादिति सम्बन्धः । उदा० । अर्धं त्रिभागश्च नवांशकश्च २५ अष्टादशश्च युतो भवेत् किम् । वृत्तपूर्वार्धम् । रूपस्यापूर्णस्याध रूपस्य भागो रूपस्य नवांशो रूपस्याष्टादशांशश्च एषां युतौ पूर्वोक्तयुक्त्या संयोगे किं स्यादिति प्रश्नः। अथ संयोगरीतिः कथ्यते । रूपशब्देनैकस्तदधो याद्यक्रेन छेदान्यासः।{३३३३३
एषां सदृशहरलवकृते भागे जातो वक्ष्यमाणस्य "अंशच्छेदौ छेदनाभ्यां विहन्यादन्योन्यस्य छेदसादृश्यहेतोः" इति वृत्ताधस्य व्याख्याया। तथाहि अत्र ३०
१ अनुष्टुप् । २ मालिनी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org