SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] घनमूलविधिः १३ णयोर्धने क्रमादष्टौ सप्तविंशतिश्व तयोरैक्ये जातः पञ्चत्रिंशत्, तद् युनक्तीति प ( ख ) ण्डघनैक्ययुक् पञ्चत्रिंशत्सहिता नवतिः, जातं पञ्चविंशत्यधिकं शतं १२५ । इदं पञ्चानां घनो भवेत् । एवं सर्वत्र ॥ अत्रोदेशक: एकादिकानां नवकान्त्यभाजामष्टादशानां च घनं प्रचक्ष्व । त्रिसप्ततेः सप्तदशाधिकस्य शतत्रयस्यापि सखे ! विचिन्त्य ॥ ' स्पष्टमिदं वृत्तम् । न्यासः - १२२|३|४|५|६| ७|८|९|१८|७३ | ३१७ । एतेषां लब्धा घनराशयः । क्रमेण न्यासः एकोऽष्टौ, सप्तविंशतिश्चतुःषष्टिः, पञ्चविंशत्य- १ धिकं शतं, पोडशाधिके द्वे शते, त्रिचत्वारिंशद्युतशतत्रयी, द्वादशाधिकपश्चशती, एकोनत्रिंशदधिकसप्तशती, पञ्चसहस्राष्टशतानि द्वात्रिंशदधिकानि, अष्टत्रिंशल्लक्षा नवतिसहस्राः सप्तदशाधिकाः, कोटयस्तिस्रो अष्टादश लक्षाः सहस्राः पञ्चपञ्चाशत् त्रयोदशाधिकाः । क्रमान्न्यासः - ११८/२७/६४ ।१२५/२१६।३४३।५१२/७२९ । ५८३२।३८९०१७।३१८५५०१३ | एवं घनविधिः समाप्तः ॥ १ घनमूलविधिः घनमूले करणसूत्रवृत्तद्वयमाह - घनोऽघनद्वन्द्वमिति प्रपात्य घनं घनान्मूलमधः पदस्य । नयेत् तृतीयस्य हरेच शेषं त्रिनिनकृत्यास्य नियोज्य लब्धम् ॥ पङ्कयां ततस्तत्कृतिमन्त्यनिघ्नीं त्रिणां चापनयेद् घनं च । विधानमेतद् गणकेन नूनं पुनर्विधेयं घनमूललब्ध्यै ॥ व्याख्या- यथा प्राक् विषमसमविधिरुक्तस्तथाऽत्र प्रतिलोमतः प्रथममङ्कपदं नस्तत्पश्चात् द्वौ अङ्को अघनद्वन्द्वं पश्चादेकमङ्कपदं घनस्तत्पश्चात् द्वौ अघनइन्द्रमितिरीत्या यत्र पर्यन्ते घनपदविश्रामस्तस्माद् यथा प्रागुक्तपर्यन्तोदाहृतिघनस्य (८५५०००) मूलं सप्तदशाधि ( क ) त्रिशतीमानेतुं घनपदादेकलक्षणाद् १ उपजातिः । २ अशुद्धं स्थलमिदम्, 'त्रयो लक्षा एकोननवतिः सहस्राः सप्तदशाधिकाः' इति शुद्धम् । Jain Education International २ For Private & Personal Use Only www.jainelibrary.org
SR No.003174
Book TitleGanittilakam Savrtuttikam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages214
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy