________________
विरचितम् ]
सङ्कलितम् दण्डो भवेत् पाणिचतुष्टयेन, रजुः स्मृता दण्डकविंशतिश्च । समाश्रिरज्जुद्वयमानबद्धं, निर्व(वर्तनं ज्ञाः परिकीर्तयन्ति ॥' सत्पण्डिता दण्डसहस्रयुग्मं, क्रोशं प्रशंसन्ति चतुष्कमेषाम् । जना जगुर्योजनमत्र नूनं, वसुन्धरामानविधानधीराः॥ षद्धिः प्रशस्तेन्द्रियपूरुषस्य, प्राणैर्विनाडी घटिका तु षष्ट्या । ५ तासामहोरात्रमपि त्रुवन्ति, षष्ट्या घटीनां पटवः सुपाट्याम् ॥ तत्रिंशता मासमुशन्ति सन्तः, संवत्सरं द्वादशभिश्च मासैः।
शेषं प्रमाणं त्विह लोकसिद्धं, प्रवालकाद्यं परिभाषणीयम् ॥ एतानि स्पष्टानि ॥ इति श्रीश्रीपतिविरचिते गणिततिलके परिभाषा ॥
सङ्कलितम्अथ क्रमप्राप्तं सङ्कलितानयनाय करणसूत्रं वृत्तार्धमाहयथा खपक्षाङ्कयुतिः क्रमेण, तथोत्क्रमात् सङ्कलिते विधेया ॥"
अस्य व्याख्या-यथा-येन प्रकारेण यथा स्वपक्षे एकध्यादिश्रेणिभूते अङ्कराशौ अग्रेतनाङ्कराशेस्तदूर्ध्वाङ्कश्रेणिः पूर्वाङ्कराशेस्ताङ्कश्रेणिः स्वपक्षस्तत्र । येऽङ्का वक्ष्यमाणोदाहरणयुक्त्या सप्तादयस्तेषां युतिर्योग-ऊोङ्कादधोऽङ्कानो मीलनं यत् स क्रमस्तेन क्रमेण तथा-तेनैव प्रकारेण तथा उत्क्रमादधोऽङ्का:ध्वोकानां मीलनं यत् स उत्क्रमस्तसादुत्क्रमात् सङ्कलिते अङ्कसम्मीलनविधौ विधेया-कार्या इति सम्बन्धः ॥
अत्रोदाहरणद्वयदर्शकं वृत्तमेकम्सप्ताष्टौ नव षोडश त्रिनवतिः षष्टिश्च षट्सप्ततिः
पञ्चाशन्मिलिता वद द्रुततरं विद्वन् ! विजानासि चेत् । - ससाविंशतिरेकविंशतिरपि द्वात्रिंशत्र(ता?)संयुता
का सङ्ख्या समुपैति पञ्चदशभिर्युक्तास्तथा पञ्चभिः? ॥ १३॥ अत्र पूर्वार्धे प्रथमोदाहरणं उत्तरार्धे च द्वितीयम् । तत्र प्रथमोदाहरणे सप्ताष्टे-२ त्यादिका ७।८।९।१६।९३।६०।७६॥५०॥ पट्टके भूमौ वा पूर्व सप्त, तदधोऽष्टौ इत्यादिक्रमेणाधः पञ्चाशद्यावल्लिखिताऽङ्कश्रेणिः पूर्वं व्याख्यातक्रमोत्क्रमाभ्यां मीलिता। सप्तमध्ये क्षिप्ताऽष्टौ जाताः पञ्चदश १५ एतन्मध्ये क्षिप्ता नव जाताचतुर्विंशतिः २४ । इत्यादिक्रमेण । तथा अधोऽङ्कात् षट्सप्ततिसत्कषट्मध्ये १-४ उपजातिः। ५ उपजातिः। ६ शार्दूलविक्रीडितम् । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org