________________
गणिततिलकम्
[श्रीपतिसप्त शून्यानि कोटिः १००००००० । एकोऽष्टौ शून्यानि अर्बुद-दशकोटिः १०००००००० । एको नव शून्यानि पनः-कोटिशतं १०००००००००। एको दश शून्यानि खर्व-कोटिसहस्रं १००००००००००। एक एकादश शून्यानि निखर्व-दशकोटिसहस्रम् १००००००००००० । एको द्वादश शून्यानि महा५ सरोज-कोटिलक्षं १०००००००००००० । एकत्रयोदश शून्यानि शङ्कः-दश
कोटिलक्षं १०००००००००००००। एकश्चतुर्दश शून्यानि समुद्रः-कोटिकोटि: १०००००००००००००० । एकः पञ्चदश शून्यानि अन्त्यं-दशकोटीकोटी १०००००००००००००००। एकः षोडश शून्यानि मध्यं-कोटीकोटीशतं १०००००००००००००००० । एकः सप्तदश शून्यानि पराय(ध)कोटीकोटी१० सहस्रं १०००००००००००००००००। एवमेकेन सहाष्टादशाङ्का भवन्ति । अतःपरमपि शून्यवृद्ध्या दशगुणं तन्नाम च शास्त्रान्तरतोऽवसेयम् ॥
अथ कपर्दव्यवहारसज्ञार्थ वृत्तमाहस्यात् काकिणी पश्चगुणश्चतुर्भि-वराटकैः २० काकिणिकाचतुष्कम् ।
पणं भणन्ति व्यवहारतज्ज्ञा, द्रम्मश्च तैः षोडशभिः प्रसिद्धः॥४॥ १५ तैः पणैरित्यर्थः।
अथ सुवर्णव्यवहारार्थ सज्ञावृत्तमाहयवस्तु निष्पावमुशन्ति षड्भि-रष्टाभिरेभिर्धरणं प्रदिष्टम् ।
गद्याणकं तद्वितयेन नूनं, व्यावर्णयन्तीह सुवर्णदक्षाः ॥५॥ पभिर्यवैरेकं निष्पावं-सुवर्णवल्लमुशन्ति-वदन्ति । शेषं स्पष्टार्थम् ॥ २० अथ मेयव्यवहारसञ्ज्ञाज्ञापकं वृत्तमाह
निष्पावकानां युगलानि सप्त, पाटीपटिष्ठा घटकं ब्रुवन्ति । पलं निरुक्तं दशकेन तेषां, तुलाऽत्र मेयव्यवहारसिद्ध्यै ॥६॥ अथ कणमानसज्ञाज्ञापकं वृत्तमाह
चतुष्टयं खल्विह पादिकानां, मनखिनो मानकमामनन्ति । २५ तैः सेतिकैका कथिता चतुर्भिः,स्यात् सेतिकानांदशकेन हारी॥७॥
तैश्चतुर्भिर्मानकैः सेतिका । शेषं स्पष्टम् । मानिकानां चतुर्हारिकाणां शर तत् स्वकीयेन नाम्ना प्रसिद्धं जने । स्पष्टम् ॥
अथ क्षेत्रव्यवहारार्थ सञ्ज्ञाज्ञापकं साध वृत्तद्वयमाहअङ्गुलं षड्यवैर्निस्तुषैर्जायते, तचतुर्विंशतिं हस्तमाहुर्बुधाः १-४ उपजातिः। ५ स्रग्विणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org