________________
श्रीपतिविरचितं ॥ गणिततिलकम् ॥ श्रीसिंहतिलकसूरिसन्हब्धवृत्तिसमेतम् ।
ॐ नमो वीतरागाय ॥ साह्लाददेवतावन्ध-क्रमं नत्वा जिनं गुरुम् ।। दृष्टकुण्डलिनीदेवी-प्रसादप्रीणितान्तरः ॥१॥ श्रीविबुधचन्द्रगणभृ-च्छिष्यश्रीसिंहतिलकसूरिरिमाम् । - गणिततिलकस वृत्ति, विरचयति परात्मबोधाय ॥२॥-युग्मम्
मङ्गलाचरणम्अथ सूत्रकारः श्रीपतिनामा सर्वदर्शनसम्मतामात्मदेवतां स्तुवन्नाह- १० रूपोज्झितं रूपयुतं स्वरूप-मात्मस्वरूपं परमं प्रणम्य । करोमि लोकव्यवहारहेतो-विचित्रवृत्तां गणितस्य पाटीम् ॥१॥
अयं श्लोको बह्वर्थ इति कृत्वा सङ्क्षिप्तरुचिनिमित्तं प्रारब्धं शास्त्रमिति न व्याख्यायते । स्पष्टश्चात्मस्वरूपवेदिनामिति ।
परिभाषाअथ गणितशास्त्रमारिप्सुः प्रथममेकादिगणितस्य शून्यवृद्ध्या वर्धमानतां दर्शयन् वृत्तमाहएकं दशस्थानमथो शतं च, सहस्रमस्मादयुतं च लक्षम् ।। अनन्तरं तु प्रयुतं च कोटि-रथाव॒दं पद्ममतश्च खर्वम् ॥२॥ निखर्वसझं च महासरोजं, शङ्कुः समुद्रोऽन्त्यमतश्च मध्यम्। २० पराद्ध्य(ध)मित्याहुरिमां हि सङ्ख्यां, यथोत्तरं स्थान विदो दशघ्नीम् ॥३॥
-युग्मम्
दशगुणां सङ्ख्यामाहुः । तथाहि-एकं १, दश १० । एक एव दशगुणो जाता दश। एवं सर्वत्र । शतं १००। एकः शून्यत्रयं च सहस्रम्, यथा १००० । एकः शून्यचतुष्टयं च अयुतं-दश सहस्राः, यथा १००००। एकः शून्यपञ्चकं लक्षं २५ १००००० । एकः पट् शून्यानि प्रयुतं-दश लक्षाः १००००००। एकः
१ अनुष्टुप । २ आर्या । ३-५ उपजातिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org