SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना परन्तु तेऽजैना इति स्फुटमवधार्यते सिद्धान्तशेखरे सूर्यचन्द्रग्रहणनक्षत्राणां मेरोराकृतेश्च सम्बन्धिनो जैनमन्तव्यस्य खण्डनात् ॥ ननु गणिततिलके श्रीपतिपरिचयकारिनिर्देशाभावे एतेषाममुकसम्प्रदायगोत्रपितृनामादिवृत्तान्तः कथं सङ्गतिमश्चति ?। उच्यते-विश्वरूपेत्यपराह्वयमुनीश्वरकृतायां लीलावतीविवृतौ येषां श्रीपतीनां पाटीगणितस्य बीजगणितस्याप्यवतरणपूर्वक उल्लेखो वर्तते ते गणिततिलककार इत्यवतरणपरीक्षकाणां मतम् । अवतरणावलोकनं विना विशेषतो वक्तुं नाहं समर्थः ॥ श्रीपतीनां कृतिकलापः(१) धीकोटिदं करणम् (६) गणिततिलकम् (२) सिद्धान्तशेखरः (७) बीजगणितम् (३) ज्यौतिषरत्नमाला (८) श्रीपतिनिबन्धः (४) दैवज्ञवल्लभः (९) ध्रुवमानसकरणम् (५) जातकपद्धतिः । (१०) श्रीपतिसमुच्चयः धीकोटिदं करणम् धीकोटीतिनाम्ना प्रसिद्धं धीकोटिदं करणं करणग्रन्थः । अस्मिन्नेकोन-- विंशतिपद्यप्रमाणके ग्रन्थे सूर्यचन्द्रग्रहणविषयः प्रतिपादितो यत्प्रपञ्चो विद्यते उदाहरणसञ्ज्ञायां टीकायाम् । मूलग्रन्थस्य प्रारम्भिके द्वे पद्ये यथा "पुष्पदन्तौ प्रणम्यादौ, वक्ष्येऽहं श्रीपतिः कविः । तयोः पर्वपरिज्ञानं, स्फुटं कौतुककृत् सताम् ॥ १॥ चन्द्राङ्गनन्दोन९६१शकोऽर्कनिघ्न चैत्रादिमासैर्युगधो द्विरनिनः । १ अस्यावतरणानि १४७९शकाब्दीये मुहूर्तपरिचितिकारिण्यां मरीचिनाम्न्यां सिद्धान्तशिरोमणिवृत्तौ दरीदृश्यन्ते। २ श्रीपतिपद्धतिरित्यपि नामधेयम् । ३ रत्नसारनानी कृतिः श्रीपतिप्रणीताऽस्ति, परन्तु सा प्रस्तुता न वेति विवादास्पदम् । ४ कस्य श्रीपतेरियं कृतिरिति न निणीतम् । ५ प्रेक्ष्यतां भारतीयज्योतिःशास्त्रं (पृ. २४७)। ६ अस्यां टीकायां सूर्यग्रहणव्याख्याप्रसङ्गे १५३२तमः शकाब्दः १५९३ तमश्च संसूचितौ। ___ ७ दीर्घवृत्तलक्षणविचित्रप्रश्नभाभ्रमरेखानिरूपणगोलीयरेखागणितादिगुम्फितॄणां श्रीसुधाकरद्विवेदिमहाशयानां मतेन धीकोटिदरचनासमये श्रीपतीनां वयश्चत्वारिंशद् वर्षाण्यासीत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003174
Book TitleGanittilakam Savrtuttikam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages214
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy