________________
प्रस्तावना
पञ्चोनितः स्वीयनृपाङ्क९१६भाग
हीनः शराङ्गा६५तफलेन युक्तः ॥२॥" सिद्धान्तशेखरः
सार्धनवशत९५०शालिवाहनशकाब्दासन्नसमयवर्तिनां श्रीपतीनामियंकृतिविंशत्यध्यायमयी नवशतसमैमनोरमैः पद्यैर्निबद्धा ज्यौतिषसिद्धान्तप्रकाशिका च समस्ति । अस्या द्वादशाध्यायी प्रथमो भागो ज्यौतिषतीर्थज्यौतिषाचार्यपदवीधरैः श्रीकृष्णमिश्रापरनाममैथिलश्रीबबुआजिमिश्ररादितश्चतुर्थाध्यायपञ्चसप्ततिपद्यपर्यन्तं विभागं मक्किभट्टकृतया गणितभूषणाख्यया टीकया तत्परतश्च स्वकृतविवरणेन समलङ्कृत्य संशोधितः 'कलकत्ता विश्वविद्यालयेन प्राकाश्यं च नीतोऽस्ति । द्वितीयो भागो मुद्यमाणो वर्तते । एतद्विषयजिज्ञासुभिरवलोकनीयः प्रथमभागवर्ती ग्रन्थपरिचयः (पृ.१३-२७) । तत्र पञ्चपञ्चाशता रम्यैः पद्यैर्गुम्फिते व्यक्तगणितेतिनाम्नि त्रयोदशेऽध्याये प्राचीनपाटीगणितप्रोक्ताः समस्ता विषयाः प्रतिपादिताः सन्ति । श्रीभास्कराचार्यैः प्रणीता लीलावती प्राय एतदध्यायस्यानुरूपैवेति श्रीबवुआजिमिश्रमतम् ।।
ज्यौतिषरत्नमाला
रत्नमालेति सङ्क्षिप्ताहया काश्यां प्रसिद्धिं गता लल्लप्रणीतरत्नकोशाधारेण श्रीपतिभिर्निर्मितेयं कृतिज्योतिषशास्त्रविषया विंशतिप्रकरणमयी वर्तते । अस्या आद्या पतिरेवम्
"प्रभवविरतमध्यज्ञानवन्ध्या नितान्त" अस्या कृतेलूणिगतनुजमहादेवप्रणीता टीका समस्ति यस्यां श्रीपतीनां गोत्रादिवृत्तान्तो वर्तते ।
दैवज्ञवल्लभ:
नागदेवात्मजश्रीपतिसन्हब्धोऽयं ग्रन्थो विंशतिप्रकरणात्मको व्यावहारिकज्योतिषशास्त्रपरिचायकः, यथाहि-(१) तिथिप्रकरणं (श्लो. १-२७), (२) वारप्र० (श्लो. १-२३), (३) योगप्र० (श्लो. १-११), (४) करणप्र०
१ एतदभिधानात्मिको ग्रन्थोऽवतरणरूपेण निर्दिष्टो नारायणभट्टकृतायां मुहूर्तमार्तण्डस्य खोपज्ञमार्तण्डवल्लभाटीकायां (पृ. १०, ३४, ४० )। अस्यां टीकायां दैवज्ञवल्लभस्य नाम, सप्तमे श्रीपतेस्तु अष्टाविंशे पृष्ठे दृश्यते । प्रेक्ष्यतां “Descriptive Catalogue of Samskxta and Prakrta Mss. B. B. R. A. S. Vol. I" सञ्ज्ञकस्य ग्रन्थस्य १०६तमं पृष्ठम् ।
२ अनेनास्यार्यपक्षीयत्वमनुमीयते। ३ एतनामसूचनं सकारणं ज्ञेयम् , यतः समाननामाऽन्योऽपि ग्रन्थो वर्तते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org