SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना ७२ तिलके श्रीसिंहतिलकसरिसन्हब्धायामेतद्वृत्तौ वा, किन्तु किश्चित्परिचयकारिणी सामग्री लभ्यते श्रीपतिप्रणीताभ्योऽन्यान्यकृतिभ्यो यदि ते श्रीपतयः प्रस्तुताः स्युः । यथाहि-ध्रुवमानसाख्यय करणग्रन्थस्य निम्नलिखितेन "भट्टकेशवपुत्रस्य, नागदेवस्य नन्दनः । श्रीपती 'रोहिणीखण्डे', ज्योति शास्त्रमिदं व्यधात् ॥" -पद्यावलोकनेन ज्ञायते यदुत नागदेव इति पितृनाम, केशवभट्ट इति पितामहनाम, 'भारत'वर्षगतं 'रोहिणीखण्डं' ध्रुवमानसस्य चोत्पत्तिस्थानम् । श्रीपतीनामपि तजन्मभूमिर्न वेति प्रश्नः । ज्यौतिषरत्नमालाया महादेवप्रणीतटीकान्तर्गतया निम्नावतारितया____ " 'कश्यप'वंशपुण्डरीकखण्डमार्तण्डः केशवस्य पौत्रः नागदेवस्य सनुः श्रीपतिः संहितार्थमभिधातुमिच्छुराह" -पङ्क्त्या समर्थ्यते पितृप्रपितनामसम्बन्ध्युल्लेखः । अपरं च ज्ञायते एतद्वंशाभिधानं कश्यपेति । ___एते जात्या ब्राह्मणा आसन्नित्यवधार्यते जातकपद्धतेरन्तिमेन' पद्येन सिद्धान्तशेखरस्य चादिमेन'। गणिततिलकस्यारम्भे मङ्गलाचरणरूपेण नमस्कारः कृतः सर्वदर्शनसम्मतायै आत्मस्वरूपदेवतायै, धीकोटिदकरणस्यादौ सूर्यचन्द्राभ्याम् , सिद्धान्तशेखरप्रारम्भे तेजोनिधये, जातकपद्धतेरादौ श्रुतिदेवतायै, ध्रुवमानसस्य प्रारम्भे विश्वसृष्टिस्थित्यन्तकारणाय, दैवज्ञवल्लभप्रस्तावे तु नारायणाय । एवं सति श्रीपतीनां विशिष्टः सम्प्रदायः क इति निर्णयो दुःशका, १ "इति जातककर्मपद्धति गुरुपादाब्जयुगप्रसादतः । वरशिष्यजनप्रबोधिनी कृतवान् श्रीपतिरग्रजामणीः ॥" अनेनानुमीयते यदुतैतेषां शिष्यपरिवार आसीत् । २ "निजगुरुपदद्वन्दं कृत्वा मनस्यतिभक्तितो गणकतिलकः श्रीपूर्वोऽयं पतिर्द्विजपुङ्गवः । स्फुटमविषमं मन्दप्रज्ञप्रबोधविवृद्धये ललितवचनैः सिद्धान्तानां करोति हि शेखरम् ॥ १॥" ३ अनेनैतेषां परमतसहिष्णुता प्रकटीभवति । ४ महादेवेन तिथ्यादिकामधेनुनाभ्यां खकृतौ पुष्पदन्तौ शारदा गणनायकश्च नमस्कृताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003174
Book TitleGanittilakam Savrtuttikam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages214
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy