SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना "महातेजप्रमः सर्व-मङ्गलोल्लासकारणम् । अर्हन् गणाश्रयं प्रीणन् , जयताद् वृषभध्वजः॥१॥" गणिततिलकम् गीर्वाणगीर्गुम्फितो मनोरमविविधच्छन्दोनिबद्धः सपादशतपद्यप्रमितो गणिततिलकसझकोऽयं ग्रन्थः श्रीधराचार्यकृतत्रिशत्याधारेण निर्मित इत्यनुमीयते कतिपयानां पद्यानां साम्यावलोकनेन । अत्र पाटीगणितसम्बन्धिनः सङ्कलितादयो ये विषयाः श्रीपतिभिः करणसूत्रैरुदाहरणैश्च समलवृताः अपश्चिताश्च ते श्रीसिंहतिलकसूरिभिर्व्याख्याताः । सङ्कलनविधौ द्वे पद्धती प्रदर्शिते क्रम उत्क्रमश्चेति । एवं गुणकारविधौ कपाटद्वयसन्धि-तत्स्थ-स्थानविभाग-रूपविभागेति सज्ञकाश्चतस्रः पद्धतयः, वर्गविधौ तिस्रः, घनविधौ चतरस्रश्च । तदतन्तरं प्रथमतया पूर्णाङ्कमाश्रित्य परिकाष्टकं निर्दिश्य भिन्नाङ्कमनुलक्ष्य तथैव कृतम् । तत्पश्चाद् बहवो विषयाः प्रपञ्चिता यत्स्वरूपार्थिभिः प्रेक्ष्यतामाङ्ग्लभाषानिबद्धा मदीया प्रस्तावना ॥ ग्रन्थकृत्परिचितिः गणिततिलकविधातॄणां श्रीपतिनामधेयानां पितृवंशजातिसम्प्रदायादिप्रकाशनप्रवण उल्लेखो न कापि दृश्यत एतत्पाटीगणितविषयके गणित १ प्रेक्ष्यतां श्रीविनयचन्द्रसूरिसूत्रितं मल्लिनाथमहाकाव्यम् । २ एतन्नामानि यथा-अनुष्टुप् (पृ. ७,९,१०,१२,१५,२४,२७,३७ १,७०,७८ ?,७९,८३, ८५,८६,८७ ); आर्या (३१,८५); इन्द्रवंशा (२१?); इन्द्रवज्रा (५,८,१६,२३,४१,४४,५८); उपजातिः (१-४,७,११,१३,२५,३०,३५,३९,४६,५४,५७,५९-६३,६४,७६,७७,८१-८३,८६, ९०); उपेन्द्रवज्रा (६८,९०); औपच्छन्दसिकम् (४६,८२); तामरसम् (७३); तोटकम् (२०); दोधकम् (६); द्रुतविलम्बितम् (४८); प्रमाणिका (६५); प्रमिताक्षरा (१९,२२), भुजङ्गप्रयातम् (५९); मन्दाक्रान्ता (२९,३४,३५,४५,६६,७१); मात्रासमकम् (३४); मालभारिणी (६); मालिनी (१५,१८,५२,८०,८६); रथोद्धता (७१,८०); वंशस्थविलम् (६४,८१); वसन्ततिलका (९,३७,५१,७३-७५); विद्युन्माला (२३), शशिवदना (२६) शालिनी (१८,३०,४१,७८); शार्दूलविक्रीडितम् (३,४६,४९,५०,६७,६९,७२,७४,७९,८०,८३); शिखरिणी (६); स्रग्विणी (२,३४); स्रग्धरा (४२,४४,५१,५३,५५,६१); खागतम् ("); हरिणी (२१, ५६). ३-४ एतयोः खरूपस्य यन्निरूपणं गणिततिलकवृत्ती विद्यते तत् तु भिन्नं लीलावतीवृत्तिगताद गङ्गाधरकृतात् । एतत्समर्थनार्थमुद्भियते प्रस्तुता पह्निः । सा चेयम् "अक्कानां पामतो गतिरिति वितर्केणैकस्थानादियोजनं क्रम उत्क्रमस्त्वन्स्यस्थानादियोजनम् ।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003174
Book TitleGanittilakam Savrtuttikam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages214
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy