SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ८२ द्वितीयोदाहरणमाह २० गणित तिलकम् दशाव्दिकोष्ट्रत्रयमाप्यते चेत् सखे ! शतेनाष्टसमन्वितेन । तद्रूपवेगा नववार्षिकोष्ट्रा अष्टौ प्रचक्ष्वाशु कियल्लभन्ते ॥ ११० ॥ न्यासः -{ |इ} | अत्र दशनवाख्यवयसोर्व्यत्यये अष्टाधि (क) शतस्य च } | प्राकृपक्षे मिथो घाते सप्तविंशतिः । द्विपक्षे मिथो १०८ परपक्षानयने यथा {2 | घाते अष्टसहस्री षट्शती चत्वारिंशच्च । अस्याः सप्तविंशत्या भागे लब्धं विंशत्यधि (क) त्रिशती, यथा ३२० । लीलावत्यां जीवविक्रयो व्यस्तत्रैराशिके “जीवानां १० वयसो मू (मौ) ल्ये" इत्यादिनोक्तः, ' परमेक विषय एवायाति । पश्चादष्टादीच्छया गुणनीयः, तथाहि इदमेवोदाहरणम् । यदा एको दशवर्षः पत्रिंशतम्-अष्टशतत्रिभागं लभते तदा नववर्षः किं लभत इति । न्यासः - ( १० | ३६ | } | अत्र प्रमाणेन दशकेन गुणिता पत्रिंशत् जाता षष्ट्यधि ( क ) त्रिशती । समिच्छयानवकेनास्या भागे लब्धं चत्वारिंशत् । नववर्षस्यैकस्य मूल्यं व्यस्तत्रैराशिकेना१५ यातम् । ततः स्वेच्छया - अष्टादिना गुण्यते, यथा - अत्राष्टगुणा चत्वारिंशत् जाता विंशत्यधि(क)त्रिशती। एवमत्र ज्ञेयम् । भिन्नभागहारेऽपि एकस्य मूल्यं भागानुबन्धादिना सवर्ण्य स्वेच्छया पञ्चाष्टादिना गुणयित्वाऽधश्छेदेन भक्ते फलं लभ्यते पञ्चराशिकवत् । एवं जीवविक्रयः समाप्तः ॥ मिश्रव्यवहारे करणसूत्रं वृत्तमाह Jain Education International [ श्रीपति निजकालहतं प्रमाणराशि परकालं फलताडितं च कुर्यात् । निजयोगहृतौ विमिश्रनिघ्नौ भवतो मूलकलान्तरे क्रमेण ॥ १११ ॥ व्याख्या - निजकालेन - एकमासादिना हतं -गुणितं प्रमाणराशि- शतादि २५ कुर्यात् । परकालं - द्वादशमासादि फलताडितं - एकमासिकव्याजेन पञ्चकादिना फलेन गुणितं कुर्यात् । ततो निजयोगः प्रमाणराशेर्निजका लहतस्य शतादेः फलताडितपरकालेन सम्बन्धः । तेन हृतौ - भक्तौ एतेन निजयोगः पृथक् स्थाप्य (:) प्राक् गुणितः प्रमाणराशिः परकालराशिश्च तथैव स्थितो मिश्रेण - व्याजमौलक्यद्रम्म १ उपजातिः । २ समीक्ष्यतामष्टादशं पृष्ठम् । ३ औपच्छन्दसिकम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003174
Book TitleGanittilakam Savrtuttikam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages214
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy