________________
विरचितम्] जीवविक्रयः
८१ न्यासः-{३४३.. } । अत्र मूल्ययोरेकत्रिकयोर्विनिमये फलस्य द्वादशकस्य च परपक्षानयने यथा {१६|300 } प्राक्पक्षे मिथो घातेऽष्टचत्वारिंशत् । द्विपक्षे मिथो घाते जाता द्वादशशती । अस्या अष्टचत्वारिंशता भागे लब्धं दाडिमानां पञ्चविंशतिः, यथा २५ ॥ द्वितीयोदाहरणमाह
पलद्वयं षभिरवाप्यतेऽगुरोः
कुरङ्गनाभेर्नवभिः पलं यदि । तदाऽगुरोः सप्तपलैस्तु लभ्यते
कुरङ्गनाभिः कियती निगद्यताम् ॥' न्यासः-{| } । अत्र षड्नवमूल्ययोर्विनिमये फलस्य-सप्तकस्य च परपक्षा-१० नयने यथा {5} । सर्वत्र एकस्य छेदत्वान्न विनिमये फलम् । प्रापक्षे मिथो घाते जाता अष्टादश । द्विपक्षे सप्तान्तं मिथो घाते द्विचत्वारिंशत् । अस्या अष्टादशभिर्भागे लब्धं पलद्वयम् ; शेषमुपरि षट्, अधश्चाष्टादश । अनयोः षड्भिरपवर्ते उपर्येकः, अधश्च त्रयः, यथा {3} । इत्यादि भाण्डविनिमयः समाप्तः ॥ पञ्चराशिकाश्रय एव जीवविक्रये करणसूत्रं वृत्तार्धमाह
जीवविक्रयविधौ पुनर्वयो
___ व्यत्यये तु विहितेऽत्र पूर्ववत् ॥ १०८॥ व्याख्या-अत्र द्वयोर्जीवयोर्वयोव्यत्ययः कार्यः । शेषविधिः सर्वोऽपि "आनीय पक्षमपरं" इत्यादिकः प्रागिव कार्यः ॥ अत्रोदाहरणमाह
द्विरष्टवर्षा यदि सप्ततिं स्त्री __प्राप्नोति तद्विंशतिवार्षिकाऽन्या। किमामुयात् तत्समरूपवर्णा
व्यावर्ण्यतां चेद् गणिते अमोऽस्ति ॥ १०९॥' न्यासः-{3:३० } । अत्र वयसोः षोडशविंशत्योर्व्यत्यये तथा फलस्य-सप्त- २५ तिश्च परपक्षानयने यथा {३.36 ) । प्राक् मिथो घाते विंशतिः । द्विपक्षे मिथो पाते जाता एकादशशती विंशतिश्च । अस्या विंशत्या भागे लब्धं मूल्यं षट्पश्वाशत् , यथा ५६ । अत्र वयोवृद्धौ मूल्यस्य प्रत्युत हासो जायते ॥ १ वंशस्थविलम् । २ रथोद्धता। ३ उपजातिः ।
११ गणित.
--
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org