SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ गणिततिलकम् [ श्रीपतिअथैकादशराशिके उदाहरणमाहपट्टा ये प्रथमोदितप्रमितयो गव्यूतिमात्रे गते तेषामानयनाय चेत् शकटिनां द्रम्माष्टकं भाटकम् । अन्ये ये तदनन्तरं निगदिता माने चतुर्वर्जिता___ स्तेषां का भवतीह भाटकमितिर्गव्यूतिषट्के वद ॥ १०५ ॥ (न्यास:-){ }। अत्राष्टकं फलं अपरं-द्विपक्षमानीय यथा { voev } सर्वत्रैकस्यैव छेदत्वान्न विनिमये तात्पर्यम् । तेन प्रापक्षे द्वादशादे(रे)कान्तं मिथो घाते जातं अशीतिसहस्राः षट्शती चत्वारिंशत् । द्विपक्षे मिथो घाते जातं षट् लक्षाः पञ्चचत्वारिंशत् सहस्रा विंशत्यधि(क)शतमेकम् । १० ततो "विभजेद् बहुराशिपक्षमितरेणे"त्युक्त्या पइलक्षाद्यङ्कस्य अशीतिसहस्रादिना भागे यथा । ६४:१३ लब्धं द्रम्मा अष्टौ, यथा ८। पञ्चराशिकादौ प्रथमं प्राक्पक्ष एकराश्यधिकः । पश्चात् फलस्य परत्र न्यासेन द्विपक्षो राश्यधिकः कार्यः। इत्येकादशराशिकं समाप्तम् ॥ अथ पञ्चराशिकाश्रयं भाण्डेन-वस्तुना प्रतिभाण्डस्य-द्वितीयवस्तुनो यद् १५ग्रहणं तद् भाण्डप्रतिभाण्डम् । तद्विनिमयप्ररूपकं करणसूत्रं वृत्तार्धमाह पञ्चराशिकविधिविधीयते मूल्ययोर्विनिमये कृते सति । - व्याख्या-प्राक्पक्षन्यस्तमूल्याङ्को द्विपक्षे द्विपक्षन्यस्तमूल्याङ्कः प्रापक्षण आनीयते इति मूल्यविनिमये एतेन छेद विनिमयोऽपि कार्य इत्युक्तम् । “आनीय २० पक्ष"मित्यादिना गुणनभागविधी च पूर्ववत् । तथा च 'लीलावत्यां "तथैव भाण्डप्रतिभाण्डकेऽपि विधिविपर्यस्य हरांश्च मूल्ये" इत्युक्तम् । अत्रोदाहरणमाह यदि खलु सहकाराः षोडशाप्याप(:) णेन त्रिभिरपि च पणैश्चेद् दाडिमानां शतं हि । विनिमयविधिना स्युर्दाडिमानां फलानि प्रवद गणक ! तन्मे द्वादशात्रैः कियन्ति ? ॥" १ इदं पद्यं लीलावत्या विंशतितमे पृष्ठे समस्ति । २ स्थितास्तेषा०' इति लीलावतीपाठः । ३ शार्दूलविक्रीडितम् । ४ रथोद्धता । ५ समीक्ष्यतां विंशतितमं पृष्ठम् । ६ 'विपर्ययस्तत्र सदा हि मूल्ये' इति लीलावतीपाठः । ७ मालिनी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003174
Book TitleGanittilakam Savrtuttikam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages214
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy