________________
विरचितम् ] व्याजोपजीविवृत्तिः समुच्चयेन-षण्णवत्यादिना निघ्नौ-गुणितौ प्रागुदितनिजयोगभक्तौ मूलकलान्तरे। क्रमेण राशौ निजयोगभक्ते मूलद्रम्माः, परकालराशौ निजयोगभक्ते कलान्तरं च भवतीति सम्बन्धः। अत्रोदाहरणमाह
'पञ्चकेन शतेनाब्दे, फलमूलयुतिः शतम् ।
चतुरूनं सखे ! दृष्टं, किं मूलं किं कलान्तरम् १ ॥११२॥ . न्यासः-{११००५/१२/२६ } । निजकालेन-एकेन हतः प्रमाणराशिः-शतं तदेव । परकालराशिः-द्वादश फलेन-पञ्चकेन ताडितो जाता षष्टिः। ततोऽनयोः शतषष्ट्योोगे षष्ट्याधि(दि) पृथक् स्थाप्यम् । ततः प्रमाणराशि:-शतं षण्णवत्या गुणितो जाता षण्णवतिशती, यथा ९६०० । तथा परकालराशिः-पष्टिः षण्णवत्या २० गुणितो जाताः पश्च सहस्राः सप्तशती षष्टिश्च, यथा ५७६० । अनयोः क्रमेण निजयोगेन पृथक् स्थापितम् । षष्ट्यधि(क)शतेन भागेन लब्धं क्रमेण मूलं षष्टिः, कलान्तरं च षट्त्रिंशत् । अनयोर्योगे षण्णवतिः । इत्थं भिन्नमपि ज्ञेयम् ॥ अथ व्याजोपजीविवृत्तिविषयं करणसूत्रं वृत्तमाह
प्रमाणराशिनिजकालनिघ्नो __ व्यतीतकालेन हतः फलादिः। मिश्रस्वनिना विहृताः खयुत्या
मूलादयस्ते क्रमशो भवन्ति ॥११३॥ व्याख्या-प्रमाणराशिनिजकालनिनः पूर्ववद् व्यतीतकालेन-द्वादशमासैहतो -गुणितः 'फलादिः' फलं-व्याजोपदिष्टपञ्चकं आदिशब्दाद् भाव्य(१)कादिः । २० एते 'मिश्रखनिनाः' मिश्रेण-सर्वमिलितद्रव्येण गुणिताः स्वयुत्या प्रमाणराशिमिलितफलादिराशियुत्या हृता-दत्तभागाः क्रमशो मूलादयो भवन्ति (इति) सम्बन्धः॥ अत्रोदाहरणमाहमासैकेन शतस्य कोविद ! फलं पश्चैकको भाव्यके(?)
वृत्तौ द्रम्मदलं च लेखककृते तद्वत् तुरीयांशकः। मासैादशभिः सखे ! नवशतीमिश्रं च पश्चोत्तरा(रं?) .
मूलाचं वद मिश्रकव्यवहृतौ यद्यस्ति ते कौशलम्॥११४॥" . १ अयं चरणो दृश्यते लीलावत्या एकविंशतितमे पृष्ठे । २ अनुष्टुप् । ३ उपजातिः । ४ शार्दूलविक्रीडितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org