________________
७२ गणिततिलकम्
[श्रीपति- न्यासः-{HIBI । अथ क्रमेण "छेदनिघ्ने"त्यादिना त्रिच्छेदा एकोनविंशतिः, तथा चतुश्छेदा नव, तथा द्विच्छेदमेकषष्ट्यधि(क)शतम् , यथा{ २४|४|१६१} । ततः समिच्छया-एकषष्ट्यधि(क)शतेन मध्यावं-नव गुणयेत् । जाता चतुर्दशशत्येकोनपञ्चाशत् , द्विच्छेदगुणाश्चत्वारो जाता अष्टौ, यथा{ १४४९} । आद्याङ्कस्य ५हरत्वात् "कृत्वा परी"त्यादिनोपरि त्रयः, अधश्चैकोनविंशतिः, यथा {१६} । सङ्गुणना यथा-त्रिगुणा एकोनपञ्चाशदधि(क)चतुर्दशशती जाताश्चत्वारः सहस्रास्त्रिशती सप्तचत्वारिंशच्च, तथा अष्टगुणा एकोनविंशतिर्जातं द्विपञ्चाशदधि(क)शतम् , {४३६५ । अनेनोपर्यङ्कस्य भागे लब्धं मानिका अष्टाविंशतिः, यथा २८; शेषमुपरि एकाधि(क)नवतिः, यथा{१}। हारिकानयनाय चतुर्गुणा जाता चतुःषष्ट्य१०धि(क)त्रिशती। अस्या द्विपञ्चाशदधि(क)शतेन भागे लब्धं हारिकाद्वयम् , यथा
२। अनयोश्चतुर्भिरपवर्ते षष्टिस्थाने पञ्चदश द्विपञ्चाशदधि(क)शतस्य अष्टत्रिंशत् , यथा {१५} । एते हारिकाभागाः ॥
अथ मार्गविषयकालोपदेशकमुदाहरणमाह. कश्चित् पीलुपतिः कपोलफलकभ्रान्तद्विरेफावलिः १५ स्मृत्वा 'विन्ध्य करेणुकाविलसितं गन्तुं प्रवृत्तो यदि । अर्धोनद्विदिनेन योजनदलत्र्यंशं व्रजेत् सन्मते!
यायाद योजनसप्ततिं खलु तदाऽहोभिः कियद्भिस्त्वसौ ? ॥९३॥' न्यासपूर्व योजनदलत्र्यंशस्य सवर्णना, यथा {3} । प्रभागजातित्वात् "अंशाभ्यासच्छेदसंवर्गमेवे"त्युक्त्या एकानां गुणने एकः । एक एवोपरि । एक२० च्छेदगुणौ द्वौ द्वावेव, द्विगुणास्त्रयः षट् अधः। ततो यथा{३ दियो। द्वितीयाङ्के भागापवाहजात्या सवर्णिते जातास्त्रयो द्विच्छेदाः, यथा{३} | ततः समिच्छया-सप्तत्या गुणितास्त्रयो जातं दशाधि(क)द्विशतम् , अधश्च एकच्छेदगुणौ द्वौ द्वावेव, यथा {२१:} । योजनदलव्यंशोत्थैकच्छेदषडंशरूपस्य हरत्वात् "कृत्वा परी"त्यादिना उपरि षट्, अध एकः, यथा {१}। षण्णां द्विकस्यार्धापवर्ते २५ क्रमात् त्रय एको जातः। ततस्त्रिगुणा दशाधि(क)द्विशती जाता त्रिंशदधि(क)षदशती । एकच्छेदगुण एकभक्तं तदेव । ततो लब्धमेतावन्ति दिनानि । एषां षष्ट्यधि(क)त्रिशत्या भागे लब्धं वर्षमेकं नव मासाः, यथा {व१, मा९} ॥
१ शार्दूलविक्रीडितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org