________________
विरचितम्]
त्रैराशिकम् अस्याः पनिर्भागे लब्धं त्रयोदश कपर्दकाः, शेषमुपरि द्वौ, अधश्च षट् । अनयोरर्धापवर्ते उपर्येकः, अधश्च त्रयः, यथा {3} । एते कपर्द(क)भागाः ॥ अथ कणविषयोदाहरणमाह
अष्टभागरहितात् पणाष्टकात्
प्राप्यते सदलमानिकाद्वयम् । तत् सखे ! कथय मानिकाशतं
सत्रिभागसहितं किमाप्नुयात् ॥ ९१॥' -- न्यासः-13/08/१९९} । आधाङ्के अन्त्याङ्के च "छेदनिघ्ने" त्यादिना क्रमाजातं द्विच्छेदाः पञ्च, एकाधि(क)त्रिशती त्रिच्छेदा । मध्याङ्के "भागापवाहनविधौ हरनिनरूपे"त्यादिना अष्टगुणा अष्टी जाता चतुःषष्टिः । एकापनयने १० त्रिषष्टिरष्टच्छेदा, यथा{ ४३५३०३ } । समिच्छया-एकाधि(क)त्रिशत्या मध्यातत्रिषष्टिं गुणयेत् । जाता अष्टादशसहस्रा नवशती त्रिषष्टिश्च, त्रिगुणा अष्टच्छेदा यथा चतुर्विंशतिः, यथा {१८९३४}। आद्याङ्कस्य हरत्वात "कृत्वा परी" त्यादिनोपरि द्वौ, अधः पञ्च । कुलिशापवर्तनम्-द्वयोश्चतुर्विंशतेश्चाधोपवर्ते क्रमादेको द्वादश । [शत एकगुण उपयङ्कः स एव, अधश्च पञ्चगुणा द्वादश जाता षष्टिः, १५ यथा { १८९६ } । अस्य पणाङ्कस्य षोडशगुणया षष्ट्या जातात)षष्ट्यधि(क)नवशत्या भागे लब्धं द्रम्मा एकोनविंशतिः, यथा {१५}, शेषमुपरि त्रयोविंशत्यधि(क)सप्तशती । पणानयनाय षोडशगुणा जाता एकादश सहस्राः पञ्चशत्यष्टषष्टिश्च, यथा {११५६४। अस्याः षष्ट्यधि(क)नवशत्या भागे लब्धं द्वादश पणाः, यथा १२; शेषमुपरि अष्टचत्वारिंशत् षष्ट्यधि(क)नवशतच्छेदाः, यथा २० {९६९ } । काकिण्यानयनाय चतुर्गुणा अष्टचत्वारिंशत् जातं द्विनवत्यधि(क)शतम् । अत्र भागो न प्राप्यत इति काकिणीस्थाने शून्यम् , यथा {० }। ततो द्वानवत्यधि(क)नवशतस्य पश्यधि(क)नवशत्याश्च षण्णवत्याऽपवर्ते उपरि द्वौ, अधो दश, यथा { }। कपर्दकानयनाय विंशतिगुणौ द्वौ जाता चत्वारिंशत् । असा दशभागे लब्धं कपर्दकाश्चत्वारः, यथा {} ॥ अथ द्वितीयं कणोदाहरणमाहद्रम्मैः षड्भिस्त्रिलवसहितैः प्राप्यते धान्यमानी
युग्मं विद्वन् ! यदि सचरणं तन्ममाचक्ष्व शीघ्रम् । द्रम्माशीत्या दलसहितया हन्त यल्लभ्यते तत्
सङ्ख्याशास्त्रे यदि तव मतिः स्फारभावं प्रपन्ना ॥ ९२ ॥ ३० १ रथोद्धता । २ मन्दाक्रान्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org