________________
गणित तिलकम्
[ श्रीपतिनवशती । द्विगुणा एकोनपञ्चाशज्जाता अष्टनवतिः । अनया नवशत्या भागे, यथा (९९१ ) | लब्धं पलानि, यथा नव ९, शेषमुपर्यष्टादश । अनयोरर्थापवर्ते उपरि नव, अधश्चैकोनपञ्चाशत्, यथा (४९) । एते पलभागाः । ततोऽत्र प्रस्तावनोक्ततौल्यघटकानयनाय दशगुणा नव जाता नवतिः । इयमेकोनपञ्चाशता ५ भक्ता लब्धं घटक एकः, यथा १, शेषमेकचत्वारिंशत् । ततो “निष्पावकानां युगलानि सप्त पाटीपटिष्ठा घटकं बुवन्ति" इत्युक्त्या वलयानयनाय चतुर्दशगुणा एकचत्वारिंशञ्जाता चतुःसप्तत्यधि ( क ) पञ्चशती । अस्या एकोनचत्वारिंशता भागे लब्धमेकादश वला द्वादशमस्य चैकोनचत्वारिंशद्भागाः पञ्चत्रिंशत्, यथा @T: {"} 0
११
१०
७०
अथ विशेषोदाहरणमाह
शतस्याभाव्यके यत्र, षड् भवन्ति पृथक् सखे ! | तत्र रूपसहस्रस्य, मध्यतः किं भवेद् वद ॥ ८९ ॥ '
अत्र शते षट् प्रक्षिप्य न्यास: - {१०६|६| १००१ } | अन्त्येन गुणितः ६००० । आदिमेन छेदांश विपर्यासेन गुणयित्वा (५:३ ) । भागे लब्धं रूपाणि ५६ । १५ शेषे उपर्यधो दलिते क्रमाद् रूपभागाः ( ३३ ) ||
उदाहरणमाह
-
कुङ्कुमस्य घटको दलयुक्तः प्राप्यते यदि पणैश्चरणाख्यैः । पश्चभिर्गणक ! तत्पलमेकं, त्र्यंशकेन सहितं लभते किम् ? ॥ ९० ॥
Jain Education International
,
·
न्यासः - ( 33 ) । “छेदनिभे" त्यादिना क्रमात् जातं द्विच्छेदास्त्रयः, चतु२० इछेदा एकविंशतिः, चतुश्छेदास्त्रयः (त्रिच्छेदाश्चत्वारः), यथा ( ३|२| } | समिच्छया- चतुर्भिर्मध्यैकविंशतिर्गुणिता जाता चतुरशीतिः, त्रिगुणाश्चत्वारो जाता द्वादशच्छेदाः, यथा ( १३ ) | आद्याङ्कस्य हरत्वात् " कृत्वा परी" त्यादिना उपरि द्वौ, अत्रयः, यथा ( 3 ) । द्वयोः षण्णां ( द्वादशानां ) चार्धापर्ते क्रमेणैकः षट् च; तथा चतुरशीतेस्त्रयाणां च त्रिभिरपवर्ते क्रमादष्टाविंशतिरेकश्च, यथा |१| } | २५ एकगुणाऽष्टाविंशतिः सैव । एकच्छेदगुणाः षट् त एव, यथा ( ६ ) | षडभिरष्टाविंशतेर्भागे लब्धं द्रम्माश्चत्वारः, यथा ४; शेषमुपरि चत्वारः । पणानयनाय षोडशगुणा जाता चतुःषष्टिः । अस्याः षड्भिर्भागे लब्धं दश पणाः, शेषं उपरि चत्वारः । काकिण्यानयनाय चतुर्गुणा जाताः षोडश । एषां षह्निर्भागे लब्धं द्वयम्, शेषमुपरि चत्वारः । ततो वराटकानयनाय विंशतिगुणा जाता अशीतिः ।
१ अनुष्टुप् । २ स्वागता ।
For Private & Personal Use Only
www.jainelibrary.org