________________
गणिततिलकम्
[ श्रीपतियथा{ १६९) । लवाप्तादिति सिद्धम् । स्वमूलं प्रत्यासन्नत्वात् षट् । तद्वर्गः षट्त्रिंशत् । एतद्युक्तं षष्ट्यधि(क)शतं एकच्छेदम् , यथा {१९६} । “विषमसमे"त्यादिना मूलं चतुर्दश {१४} । समूलं षड्युतं जाता विंशतिः । अर्धीकृतं दश, वर्गितं च जातं शतम् , यथा {१०० } । भागस्त्रिपञ्चभिराहतं(? तः) । तथाहि-त्रिगुणं ५ शतं त्रिशती, एकः पञ्चगुणः पञ्च, जाता पञ्चच्छेदा त्रिशती, यथा {३०५} । अनयोः पञ्चभिरपवर्ते उपरि षष्टिः, अधश्चैकः, यथा {} । अन्तरा अङ्का गताः, प्रथममूलाङ्कः स्थितः प्रत्यासन्नत्वात् । दृश्याङ्क एकच्छेदा पष्टिश्चतुगुणा चत्वारिंशदधि(क)द्विशती एकच्छेदा । लवैः प्रथमोक्तैर्द्वित्रिभागैर्हरत्वात् "कृत्वा परीवर्तन"मित्यादिनोपरि त्रयः, अधश्च द्वौ, यथा {३} । कुलिशापवर्तनम्१० चत्वारिंशदधि(क)द्विशत्या अर्धापवर्ते विंशत्यधि(क)शतम् , द्वयोरर्धापवर्ते एकः,
यथा {१२९६ }। ततः सङ्गणना-त्रिगुणं विंशत्यधि(क)शतं जाता षष्ट्यधि(क)त्रिशती । एकच्छेदगुण एकः स एव । तद्भक्तश्चाङ्कः स एव । लवाप्तादिति सिद्धम् । स्वमूलं नव, तद्वगे एकाशीतिः । इयं षष्ट्यधि(क)त्रिशतमध्ये क्षिप्ता
जाता एकचत्वारिंशदधि(क)चतुःशती एष(क)च्छेदा । “विषमसमे"त्यादिना १५ मूलमेकविंशतिः। समूलं नवयुक्तं जाता त्रिंशत् । अर्धाकृतं पञ्चदश, वर्गितं च
पञ्चविंशत्यधि(क)द्विशती । भागैर्द्वित्रिभिराहतम् । द्विगुणा पञ्चविंशत्यधि(क)द्विशती जाता पञ्चाशदधि(क)चतुःशती । त्रिगुण एको जातास्त्रयः, यथा {४५३ } । अधोऽङ्केनोपर्यङ्कस्य भागे लब्धं सार्धशतम् , यथा { १५० } । एतत् हंसकुलप्रमाणम् । भागैर्मूलेन च निष्पन्नत्वात् दृश्यस्य भागमूलदृश्यजातिः समाप्ता ॥ २० अस्य घटना-सार्धशतस्य द्वौ त्र्यंशौ शतं तस्य मूलं १० नवप्नं जाता नवतिः · नभोगता। शेषषष्टिपञ्चभक्ताया लब्धं द्वादश । एतत्रयं षट्त्रिंशत् । अस्य मूलं षट्, पद्म (षडा)हतं षट्त्रिंशदेतनष्टम् । दृष्टा चतुर्विंशतिः, यथा {१६} । एषां योगे सार्धशतम् । हीनवर्गजातौ करणसूत्रं वृत्तमाह
खांशोद्धृतच्छेद इह द्विधाऽसा
चूनाहतोऽन्यार्धकृतिप्रयुक्तः। दृश्योनितस्तत्पदमूनमन्य
दलान्वितं भागविभक्तमाप्तम् ॥ ८०॥' व्याख्या-खांशैरुद्धृता-ऊर्ध्व नीतः स्वकस्साधोगमनेन यश्छेदः खांशोवृत१ उपजातिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org