________________
विरचितम् ]
भागमूलजातिः दृष्टाश्चाष्टादशान्ये हरिणपतिशिशुध्वानमाकर्ण्य भीताः
का सङ्ख्येयं गजानांगणय गणितवित् ! चेदिहास्ति श्रमस्ते ७८।' न्यासेनैवाय व्याख्या-{ |मूदृश्य '६} । दृश्यमष्टादश। पयोराशिहतं चतुर्गुणा अष्टादश जाता द्वासप्ततिर्यथा लवाप्तात् । तथाहि अष्टच्छेदलवस्तस्य च हरत्वात् "कृत्वा परीवर्तन"मित्यादिना उपर्यष्टौ, अधश्चैकः, यथा {6} । ततः सङ्गुणना-अष्टगुणा द्वासप्ततिर्जाता षट्सप्तत्यधि(क)पञ्चशती, एकच्छेदगुण एकः स एव, एकभक्तमपि तदेव । अनेन लवाप्तादिस्वमूलमष्टादश । अस्य वर्गश्चतुर्विंशत्यधि(क)त्रिशती, यथा ३२४ । समच्छेदत्वात् षट्सप्तत्यधि(क)पञ्चशतमध्ये यथा ५७६ चतुर्विंशत्यधि(क)त्रिशतक्षेपे जाता नवशती एकच्छेदा, यथा{ ९०१ । अस्स "विषमसमे" त्यादिना मूलं त्रिंशत् । समूलं मूलेन-अष्टादशकेन समच्छेदत्वात् १० सहितंजाता अष्टचत्वारिंशत् । अर्धीकृतं जाता चतुर्विंशतिः, वर्गितं चतुर्विंशतिवर्गः षट्सप्तत्यधि(क)पञ्चशती । भागाहतं-भागेनैकेनाष्टच्छेदेन आहतं उपर्यङ्केनाहतं तदेव, अधश्चाष्टगुण एको जाता अष्टौ । ततोऽष्टभिः षट्सप्तत्यधि(क)पञ्चशत्या, यथा {१७} । भागे लब्धं द्वासप्ततिः। यथा { ७२} । एतद् गजयूथप्रमाणम् ॥
अस्य घटना-द्वासप्ततिगजानामष्टांशो नव । तस्य मूलं त्रिकमष्टादशनं ।' जाता चतुःपञ्चाशत् शैलाने चरति । दृष्टा अष्टादश {१४} । एषां योगे जाता द्वासप्ततिः॥ अथ मूलद्वयोपेतदृश्यद्वयस्सोदाहरणवृत्तमाह
द्वित्र्यंशमूलं धुगतं नवघ्नं
नष्टं च शेषत्रिशराश्च मूलम् । षडाहतं हंसकुलस्य दृष्टा
सखे! त्रिरष्टौ कति तेऽत्र सर्वे ॥७९॥' (व्याख्या-) द्वौ व्यंशी तयोर्मूलं नवगुणं शेषत्रिलवभागा मूलं च षडाहतं नष्टं दृष्टा त्रिरष्टौ चतुर्विंशतिः। न्यासः-{3/मू शेष मू१२४ } | दृश्याङ्कश्चतुर्विंशतिश्वतुर्गुणा जाता षण्णवतिलवः । त्रिपञ्चभागाहरत्वात् “कृत्वा परीवर्तन"मित्यादि-२ ना उपरि पञ्च, अधस्त्रयः, यथा {3}। कुलिशापवर्तनम्-पण्णवतेस्त्रिभिरपवर्ते द्वात्रिंशत् , त्रयाणां त्रिभिरपवर्ते एकः, यथा {३३५} । ततः सङ्गुणना-द्वात्रिंशतो मिथो गुणने षष्ट्यधि(क)शतम् । एकच्छेदगुण एकः स एव । एकभक्तश्च स एव,
१ स्रग्धरा । २ उपजातिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org