________________
विरचितम् ]
उभयाग्रदृश्यजातिः रूपाहतिभक्त दृश्यमूले। दृश्यक्यत इति दृश्ययोराधन्तयोरेक्य-संयोगः समच्छेदनाद् यः तस्मात् । दृश्यैक्यतः किंरूपात् ? पदव्यंशकेति पदस्य व्यंशकमधं तस्य वर्गस्तद्युक्तात् । अयमर्थः-पदार्धवर्गयुक्तं पर्यन्तदृश्यं प्रथमं कृत्वा पश्चान्मूलदृश्येनैक्यं विधेयम् । ततो "विषमसमे"त्यादिना मूलं पदार्धयुक्तं स्पष्टं स्वनिघ्नं पदार्धयुक्तमूलस्य योऽङ्कः स तेन गुणितो भवतीष्टराशिः॥ अत्रोद्देशकवृत्ते उदाहरणमाहस्तम्बे स्तम्बेरमेण स्थितमथ सरसि क्रीडया शेषषष्ठं
तस्थौ शेषेषुभागश्चरति गिरितटे शल्लकीपल्लवांश्च । पादः शेषाच सिंहध्वनिभयचकितः सर्वमूलाभ्युपेतो
दृष्टोऽन्यः षट्करेणूरनुसरति करी बेहि मानं कतीभाः ? ॥ १० व्याख्या-स्तम्बे-आलानस्तम्भे स्तम्बेरमेण एकवचनान्तत्वादेकेन स्थितम् । शेषस्य इषुभागः-पञ्चमो भागः। शेषं स्पष्टम् । न्यासः-{ शे।।६।४ मू ;}। "निरंशरूपे"त्यादि रूपमेकच्छेदगतः । “अंशच्छेदा" वित्यादिना छेदविनिमये गुणने च रूपस्थाने क्रमेण षट् षट्छेदाः पञ्च पञ्चच्छेदाश्चत्वारश्चतुश्छेदाः स्युः, यथा {{/५/४} । ततः प्रागलिखितांशस्य एकैकस्य पाते क्रमेण रूपस्थाने पश्च: षट्छेदाश्चत्वारः पञ्चच्छेदास्त्रयश्चतुश्छेदाः, यथा {१/६/} । एतस्य निरंशरूपस्य उपयेङ्कस्याधश्छेदाङ्कस्य चाहति:-मिथो गुणनम् , यथा पश्चगुणाश्चत्वारो विंशतिः, विंशतिगुणाय (? स्त्रयः) [ उपरि षष्टिस्तथा षड्गुणाः पञ्च त्रिंशत्, त्रिंशद्गुणाश्चत्वारो विंशत्यधि(क)शतम् , यथा {१६} । अनयोः षष्ट्याऽपवर्त उपर्यकः, अधो द्वौ, यथा {३} । अनया निरंशरूपाहत्या भक्ते । तथाहि हरराशित्वात् २० "कृत्वा परीवर्तन"मित्यादिनोपरि द्वौ, अध एकः, यथा {२} । ततो दृश्यस्य सप्तकस्य सङ्गणना-द्विगुणा सप्त जाताश्चतुर्दश । एकगुण एकच्छेदः स एव । तथा मूलमेकः। सङ्गणना-द्विगुण एको जातौ द्वौ । एकगुण एकच्छेदः स एव । तथा एकभक्तं दृश्यं मूलं च तदेव, यथा {१६२/मू} । ततः पदस्य द्वयोव्यशकमर्धमेकस्तस्य वर्गोऽप्येकस्तद्युक्तं दृश्यं चतुर्दश जाताः पञ्चदश एकच्छेदाः, २५ यथा {१५} । एतद्युक्तात् दृश्यैक्यत इति दृश्यमाद्यमेक एकच्छेदः। ततः सदृशच्छेदत्वात् पर्यन्त दृश्योत्थपञ्चदशमध्ये आद्यदृश्यैकक्षेपे जाताः षोडश, यथा {१६} । असाद् दृश्यैक्यतो मूलं चत्वारः, पदं प्रागुक्तं द्वौ, तदर्धमेकस्तद्युक्ता
१ स्रग्धरा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org