________________
५४ गणिततिलकम्
[श्रीपतितथा सप्तच्छेदगुणौ द्वौ जाताः चतुर्दश । एतेन भागोनरूपरहिते दृश्यमूले इति सिद्धम् , यथा {मू२४/४ } । रूपशेषं गतं दृश्यादित्यादि । अत्र पदं चतुर्विंशतिस्तस्याध द्वादश, तस्य करणी चतुश्चत्वारिंशदधि(क)शतम् । अधश्चतुर्दशानां
करणी षण्णवत्यधि(क)शतम् । एकं विना द्विप्रभृतीनां छेदानां 'भिन्न' इति ५ सज्ञा । तत उपर्यधोऽङ्कयोर्वर्गो भवति, यथाऽत्र जातः {२४६ } । अस्य योजनार्थ "अंशच्छेदा" वित्यादिना दृश्यचतुःषष्टिच्छेदस्य सप्तकस्य सप्तभिरपवर्ते जात एकः । षण्णवत्यधि(क)शतस्य सप्तभिरपवर्ते अष्टाविंशतिः । ततो विनिमये, यथा {१५४३४} । पूर्वाङ्क एकगुणः स एव । पराङ्के अष्टाविंशतिगुणा चतुःषष्टि
र्जाता सप्तदशशती द्विनवतिश्च । अष्टाविंशतिगुणाः सप्त जातं षण्णवत्यधि(क)१० शतम् , यथा { १९९६} । समच्छेदत्वात् सप्तदशशत्यादिमध्ये चतुश्चत्वारिंश
दधि(क)शतक्षेपे जाता एकोनविंशतिशती षट्त्रिंशच षण्णवत्यधि(क)शतच्छेदा, यथा { १९३६} । अनयो"विषमसमे"त्यादिना द्विघ्नार्धिते उपरि जाता चतुश्चत्वारिंशत् , अधश्चतुर्दश, यथा { ११४} । अग्रमूलद्विभागोऽधं द्वादश, तेन
सहिते जाता षट्पञ्चाशत् चतुर्दशच्छेदा, यथा {१६} । अनयोश्चतुर्दशभिर१५ पवर्ते उपरि चत्वारः, अधश्चैकः । ततोऽनयोः कृतिरुपरि षोडश, अधश्चैकः, यथा {१६} । एतत् सूकरयूथप्रमाणम् ।
अस घटना-पोडशकस्याष्टमे भागे द्वौ। पोडशकमूलं चत्वारः सार्धं षट् । दृष्टा अष्टौ, यथा । एषां योगे षोडश । एवं मूलाग्रे कृतभागनिष्पन्नत्वात् मूलाग्रभागजातिः समाप्ता॥ २० अथ उभयाग्रदृश्यजातौ करणसूत्रं वृत्तमाह
निरंशरूपाहतिभक्तदृश्य
मूले पदाशकवर्गयुक्तात् । दृश्यकतो मूलमथो पदार्ध
__ युक्तं स्वनिम्नं भवतीष्टराशिः॥" २५ व्याख्या-इयमुभयानम्-आद्याग्रमन्ताग्रम्, तत्र दृश्यं आदावन्ते च दृश्यं तद्रूपा जातिस्तत्र । निरंशरूपेति यावन्तो अंशा भवन्ति तावतो वारास्तावद्भिरंशैीनानि रूपाणि तेषां आहतिः प्रभागजातिवदंशच्छेदयोरंशैरंशगुणनं छेदैश्छेदगुणनं तया भक्तं-भागहाररीत्या विभक्तं पर्यन्तदृश्यं मूलं च तत्र निरंश
१ उपजातिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org