________________
विरचितम् ] मूलाग्रभागजातिः जाता अष्टौ । एतेन जातं पदार्धम् । ततः करणी-वर्ग उपर्येकाशीतिः, अधश्च चतु:षष्टिः । अयं भिन्नवर्गः, तेन सहिताद् दृश्यात् चतुश्छेद(दा) नवतिः । तथाहि"अंशच्छेदा"वित्यादिना छेद विनिमये द्वयोश्चतुर्भिरपवर्ते जाते एकके षोडशके, यथा {६ } । पूर्वाङ्क एकगुणः स एव, पराङ्क(के) षोडशगुण(णा) नवतिर्जाता चत्वारिंशदधि(क)चतुर्दशशतानि, षोडशगुणाश्चत्वारो जाता चतुःषष्टिः। समच्छे- । दत्वात् चत्वारिंशदधि(कचतुर्दश)शतमध्ये एकाशीतिक्षेपे जाता एकविंशत्यधि(क)पञ्चदशशती चतुःषष्टिच्छेदा, यथा { १५६४ } । अनयो"विषमसमे"त्यादिना द्विघ्नार्धन चोपरि लब्धैकोनचत्वारिंशत् , अधश्चाष्टौ । एतद् भिन्नवर्गमूलम् , यथा {३}। अत्र मूलद्विभागो रूपशेषनवाष्टच्छेदाः। एतत्सहिता सदृशच्छेदत्वादेकोनचत्वारिंशमध्ये नवक्षेपे जाता अष्टचत्वारिंशत् । ततोऽष्टचत्वारिंशदष्टकयोरष्ट- १० मिरपवर्ते उपरि षट्, अधश्चैकः, यथा {} । अनयोः कृतिरुपरि षट्त्रिंशत् , अधश्चैकः, यथा {३६ } । एतत् कपियूथप्रमाणम् ।
अस्य घटना-नवभक्तः षट्त्रिंशतः पञ्चभागाश्चतुष्कपञ्चकेन विंशतिः, षत्रिंशतश्च मूलं षड् , विंशतिरान्दोलने दृष्टाश्च दश, यथा {२} । एषां योगे षट्त्रिंशत् ॥ अथ तृतीयोदाहरणमाहअष्टांशः क्रोडयूथात् सुगणक ! कुरुते पल्वले पङ्ककेलिं
मूलं सार्धं नु मुस्ताः खनति खलु सखे ! पोत्रिणी सप्तपोता। दृष्टा भ्रष्टा खयूथान्निजकुलमभितोऽन्वेषमाणा प्रचक्ष्व ।
क्षिप्रं जानासि पाटीं यदि ननु कतिभिः सूकरैयूंथमेतत् ॥ २० न्यासेनैवास व्याख्या-(यू? ||१६} । अत्र मूलाके "छेदनिघ्ने"ष्वित्यादिना छेदद्विगुण एको जातौ द्वौ, रूप एको मध्ये जातास्त्रयो द्विच्छेदाः । "भागोने"त्यादि कर्तुं रूपस्य एकच्छेदस्य भागच्छेदाष्टकस्य च विनिमये यथा, {3}} । अष्टगुण एको जाता अष्टौ, पराङ्क एकगुणः स एव । ततो रूपोत्थाष्टमध्याद् भागैकपाते जाताः सप्ताष्टच्छेदाः, यथा {} । अनेन दृश्यमूले २० विभक्तुं हरराशित्वात् "कृत्वा परीवर्तन"मित्यादिना उपर्यष्टौ, अधः सप्त, यथा {१६} । ततः सङ्गुणना-अष्टगुणा अष्टौ जाता चतुःषष्टिरेकगुणसप्तच्छेदा, यथा {१४} । मूलत्रिद्विरूपस्य मध्ये सङ्गुणना-अष्टांशगुणास्त्रयो जाता चतुर्विंशतिः, १ तृणविशेषान् । २ स्रग्धरा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org