________________
५२
गणिततिलकम्
[श्रीपतिनवकस्य करणी-वर्गो जाता एकाशीतिः, दशवर्गे च शतम् , यथा {६.} । अनेन सहितं दृश्यं कर्तुं "अंशच्छेदा" वित्यादिना दृश्याष्टादशाधश्छेदस्य पञ्च कस्य पञ्चभिरपवर्ते एकम् , शतस्य पञ्चभिरपवर्ते विंशतिः । ततो विनिमये यथा {२०१६} । पूर्वाङ्क एकगुणः स एव । पराङ्के विंशतिगुणा अष्टादश जाता ५ षट्यधि(क)त्रिशती । विंशतिगुणाः पञ्च जातं शतम् । समच्छेदत्वात् षष्ट्यधि(क) त्रिशतीमध्ये एकाशीतिक्षेपे जाता एकचत्वारिंशदधि(क)चतुःशती शतच्छेदा, यथा {१४} । द्वयोरप्यङ्कयोः "विषमसमे"त्यादिना लब्धौ द्विचत्वारिंशतो द्विगुणस्यार्ध उपर्येकविंशतिः, अधश्च दश, यथा {२} । अत्र मूलद्विभाग
प्रयुक्तदशच्छेदनवकलक्षणः, तेन सहिता एकविंशतिर्जाता त्रिंशद् दशच्छेदा । १० अस्याः कृतिरुपरि नवशती, अधश्च शतम् , यथा {१} । अधोऽङ्केनोपर्यङ्कस्य भागे लब्धं नव मृगप्रमाणम् ।
अस्य घटना-नवकस्य व्यंशस्त्रयः । स्वलवस्त्रयाणां त्रिभागे एकस्तत्सहिता चत्वारो नष्टाः । स्वमूलं-नवकमूलं त्रयो गीते लुब्धम् । दृष्टं च द्वयम् , यथा ।।। एषां योगे नव ॥ १५ द्वितीयोदाहरणमाह
कपिकुलनवमांशाः पश्च मूलेन युक्ताः
पनसविटपिशाखान्दोलनासक्तचित्ताः। फलमभिलषमाणा वानरा द्वन्द्वयुद्धा
दश च गणक! दृष्टा यूथमानं वदाशु ॥' २० (न्यासः) {रूयू मू/१० } । अत्र एकच्छेदरूपस्य भागैक्यार्थ"मंशच्छेदा". वित्यादिना छेदविनिमये यथा {8/}। प्राच्याङ्के नवगुण एको जाता नव नव. च्छेदाः, पराङ्क एकगुणः स एव । ततो रूपाङ्कानवतो भागपश्चकपाते जाता नवच्छेदाश्चत्वारः, यथा {{} । एतद् भागोनरूपम् । अनेन विहते दृश्यमूले । तथाहि-दृश्यमूलक्रमाद् दशैकावेकच्छेदौ विभक्तम् । १० । रूपशेषचतुर्नवकस्य २५ भागदायिनः "कृत्वा परीवर्तनमंशहारयो"रित्यादिना उपरि नव, अधश्चत्वारः,
यथा {e} । ततो दृश्यदशकस्य नवगुणे जाता नवतिश्चतुश्छेदा, यथा { } । तथा मूलस्य-एकस्य नवगुणे जाता नव चतुश्छेदाः {} । एतेन भागोनरूपविहते दृश्यमूले जाते । अत्रापि पदं नवाध न सहते, तदधश्चतुर्णा द्विगुणतायां .१ मालिनी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org