________________
विरचितम् ]
मूलाग्रभागजातिः
मूलद्विभागसहिते गमिते कृतित्वं राशिर्भवेदभिमतो हृदि यस्त्वदीये ॥'
Jain Education International
---
व्याख्या - दृश्यमूल इति दृश्यं च मूलं च दृश्यमूलं तत्र दृश्यमूले । भागो - नरूप विहृते - संवर्गित भागन्यूनरूपेण प्रस्तावे विभक्ते सति दृश्यादित्यादिपदं - मूलं तस्यार्धम् । यदा च पदं नार्थं सहते [पदं] तदाऽधश्छेदं द्विगुणं कृत्वा तस्य ' पदस्यार्धितस्य करणी - वर्गस्तेन सहिताद् दृश्यादङ्कात् " विषमसमे" त्यादिना समानीते द्विमार्धिते पदे । मूलद्विभागेत्यादि भागोनरूप विहृतिवेलायां यन्मूलमकृतकरणकं तस्य द्विभक्तस्य यल्लब्धं तेन सहिते । गमिते कृतित्वं तस्य मूलद्विभागसहित दृश्योत्थपदाङ्कस्य वर्गे कृते सति अभिमतो राशिर्भवेदित्यादि स्पष्टम् ॥
अत्रोद्देशकवृत्ते उदाहरणमाह
त्र्यंशः सारङ्गयूथात् त्रिलवकसहितो व्याघ्रभीत्या प्रणष्टो गीते लुब्धं स्वमूलं विगलितकवलं मीलिताक्षि स्थितं च । यूथाद् भ्रष्टे कुरङ्गयौ तरलितनयने हन्त दृष्टे भ्रमन्त्यौ कान्तारे ब्रूहि तूर्णं यदि गणित विधिं वेत्सि यूथप्रमाणम् ॥ '॥' न्यासेनैव व्याख्या - (रू | भा २ ) । अत्र भागानुबन्धजातौ " "छेदनं छेदनेने "त्यादिना छेदनं त्रिकं छेदनेन - त्रिकेण हन्यात्, जाता नव । सांशकाधोहरेण- सैकत्रिकेण चतुर्भिराद्यांशमेकं हन्यात्, जाताश्चत्वारो नवच्छेदाः, यथा (३) । रूपेणैकच्छेदेन सम' "मंशच्छेदा" वित्यादिना विनि
ये {{|} आद्याङ्क एकगुणः स एव । पराङ्क एको नवगुणो जाता नव । एभ्यः प्राच्य भागचतुष्कपाते जाताः पञ्च नवच्छेदाः { ५ } | एतद् भागोनरूपम् । २ अनेन विहृते दृश्यमूले दृश्यं द्विकमेकच्छेदं विहर्तुं भागोनरूपस्य पञ्चकादेः " कृत्वा परीवर्तन" मित्यादिना यथा ( ६ | ) | सङ्गणना- नव द्विगुणा अष्टादश, एकगुणाः पञ्च पञ्चैव, जाता दृश्यस्थाने अष्टादश पञ्चच्छेदाः, यथा ('६} । तथा मूलं एको नवगुणो जातमूलस्थाने नव पञ्चच्छेदाः, यथा ( ३ ) । एतेन भागोनरूपविहृते दृश्यमूले ज्ञेयम् । अत्र पदं नव, सोऽधं न सहते, ततस्तदधः २ पञ्चकस्य द्विगुणतायां जाता दश । एतेनार्धमुपर्यङ्को भवति । एवमर्धासहे उपsh अधःस्थस्य द्विगुणतायामुपर्योऽर्धितो भवति (इति) सर्वत्र ज्ञेयम् । पदार्थस्य
१ वसन्ततिलका । २ स्रग्धरा ।
५१
For Private & Personal Use Only
www.jainelibrary.org