________________
विरचितम् ]
वल्लीसवर्णनम् उपरि पञ्च अधश्चतुर्विंशतिः, यथा { २४} । ततो रूपभागनिष्पन्नाङ्कस्य पञ्चचतुर्विंशतिच्छेदस्य मध्ये समच्छेदत्वादमी पञ्च क्षिप्ता जाता दश चतुर्विंशतिच्छेदाः, यथा {२} । अनयोरर्धापवर्ते उपरि जाताः पञ्च, अधश्च द्वादश, भाज्याभावादिदम् , यथा {१५} । एवं भागापवाहजातिः समाप्ता॥
वल्लीसवर्णनम्अथ वल्लीसवर्णनजातौ करणसूत्रं वृत्तमाह
प्राक् छेदभागौ गुणयेद्धरेण
तलस्थितेनांशमधःस्थितं तु। ऋणं धनं पूर्वलवे विदध्यात्
सवर्णनार्थ द्रुतमत्र वल्लयाः॥' व्याख्या-अङ्कद्वयापेक्षा प्रक्रिया । अङ्कश्चांशच्छेदरूपस्ततस्तलस्थितेन हरेण-अधश्छेदेन-प्राक् उपरिच्छेदभागौ-छेदांशौ गुणयेत् । ततोऽधःस्थितमंशं ऋणमिति यस्यांशस्य पश्चात् शून्यमपवाह्यत्वाल्लिखितं तमंशं ऋणसझं पूर्वलवे विदध्यात् । अधोहरेण गुणितादुपरिमांशराशेरपनयेदित्यर्थः । तथा अधःस्थितमंशं धनं यस्यांशस्य पश्चान्न शून्यमस्ति भागानुबन्धजातित्वात् तमंशं धनसझं १५ पूर्वलवे अधोहरगुणितोपरिमांशराशौ निक्षिपेत् । अत्र ऋणशब्देन भागानुबन्धः जातिर्दर्शिता, न तु तद्गतप्रक्रिया ॥ अत्रोद्देशकवृत्ते एकमुदाहरणमाह
द्रम्मद्वयं पञ्च पणास्तथैका
काकिण्यहो मित्र! कपर्दिकोना। तदंहिणा चापि सवर्णयित्वा
व्यावर्ण्यतां द्राग यदि वोवुधीषि ॥' व्याख्या-द्रम्मद्वयम् , तथा पञ्च पणा यादृशैः षोडशपणैर्द्रम्मस्त्रिशत्यां च पुराणः प्रोक्तस्तादृशाः पञ्च पणाः । काकिण्येका चतुष्काकिणीरूपपणस्य चतु
र्भागः । सा कपर्दकोना, कपर्दः काकिण्या विंशतितमो भागस्तनोना तथा तदं-२५ हिणोनाऽपि । तच्छब्देन “सर्वनाम्नाऽनुसन्धिर्वृत्तिच्छन्नस्य" इति न्यायात् तस्य कपर्दकस्य अंहि:-चतुर्भागस्तेनाप्यूना वर्तते । तत एतत् सवर्णयित्वा-संयोज्य ब्रूहि यदि बोबुधीषि-गणितमत्यर्थं बुध्यसे । ऊर्ध्वगत्या वल्लिरूपत्वादकानां न्यासः {ww.f-.} । अत्र प्रक्रिया अङ्कद्वयापेक्षेति तलस्थितेन हरेण
१-२ उपजातिः।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org