________________
गणिततिलकम्
[श्रीपतिष्टकं विंशतिसहस्रादिच्छेदम् । शेषं विनष्टम् , यथा { २.०६६४ } । उपर्यङ्कः स्तोकत्वाद् भागं न सहते, यतः पूर्णरूपप्रायस्ततो यथाभागयोग्यः स्यात् तदर्थ पणरूपः कार्यःप्रथमं यतः षोडशपणैरेको द्रम्मः । ततः षोडशगुणं त्रिशष्ट्यधि(क)शताष्टकं जातं त्रयोदश सहस्रा अष्ट शतान्यष्टौ च, यथा १३८०८ । इयताऽपि न भाग५ सहस्ततः काकिणीरूपः कार्यः। पणश्चतुःकाकिणीकस्ततश्चतुर्गुणं त्रयोदशसहस्रादि
जातं पञ्चपश्चाशत् सहस्रा द्वे शते द्वात्रिंशच्च । अस्य विंशतिसहस्राद्यङ्केन भागे यथा {५५३६३ } । लब्धं द्वे काकिण्यौ यथा २, उपरि शेषाङ्कश्चतुर्दश सहस्रा नवशती द्वादश च । अयं स्तोकत्वाद् भागं न सहते, (अतः) कपर्दरूपः कार्यः, यतो विंशत्या
कपर्दै काकिण्येका स्यादिति विंशतिगुणश्चतुर्दशसहस्रादि जातौ द्वौ लक्षौ अष्ट१० नवतिसहस्रा द्वे शते चत्वारिंशत् । अस्य विंशतिसहस्रादिना भाग(गे) {२०६३४० }
लब्धं चतुर्दश कपर्दकाः, यथा १४ । उपरि शेषाङ्कः षोडश सहस्राः १६००० । तत उपर्यधोऽङ्कयोविंशत्यधि(क)त्रिशत्याऽपवर्ते उपरि जाता पञ्चाशत् अधश्च त्रिषष्टिः, यथा {१७} । एवं प्रभागजातिः समाप्ता ॥
अथ भागानुवन्धजातौ करणसूत्रं वृत्तमाह१५ छेदनिनेषु रूपेषु भागं क्षिपे-च्छेदनं छेदनेनैव हत्वाशकम् ।
सांशकाधो हरेणाद्यमाहन्यते, नूनमंशानुबन्धाख्यजातेर्विधौ॥'
व्याख्या-यत्रांशच्छेदा भागानुबन्धिनो भवन्ति भागानुवन्धश्च रूपानुबद्ध एव ततः छेदनिधेषु रूपेषु-छेदगुणितेषु रूपेषु उपरिस्थेषु भागं-तद्रूपानुवन्धिनं भागं निक्षिपेदिति शुद्धभागजात्याश्रयमुक्तम् । यदि भागास्तावद्रूपानुबद्धास्ततो २० भागानुबद्धरूपस्य भागा एव बहुभागानु(बन्ध)यायिनो भागानुबन्धराशयो भवन्ति तदा किमित्याह-छेदेत्यादि । अधोऽशच्छेदनेनोपरिमांशच्छेदनं हत्वा-गुणयित्वा सांशकाधोहरेण-अधोहरमध्यक्षिप्ताधोऽशेनोपर्यंशमाहन्यते-गुण्यते तदधोऽङ्को विनश्यति गुणकत्वादुपर्यशच्छेदौ तिष्ठतः । एवमग्रेतनाङ्केष्वपि विधिः कार्यः । नूनमंशेत्यादि स्पष्टम् ॥ २५ पूर्व प्रथमपदोदाहरणं वृत्तेनाह
सचरणदशरूपमर्धयुक्तं, त्रिलवयुतं द्वितयं च हे सखे!।। कथय मम सवर्णनं हि कृत्वा, यदि गणिते विद्यते श्रमस्ते ॥ चरणसहितानि दशरूपाणि तथा अर्धयुक्तं रूपमेकं तथा त्रिलवयुतं द्वितयं च कथय । शेषं स्पष्टम् । न्यासः {9818|३} । अत्र विधिर्यथा-प्रथमाङ्के छेदा१ स्रग्विणी । एतल्लक्षणमेवम्-“कीर्तितैषा चतूरेफिका स्रग्विणी”। २ मात्रासमकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org