________________
विरचितम् ]
भागानुबन्धजातिः
३५
श्वत्वारस्तन्निघ्नानि रूपाणि दश जाता चत्वारिंशत् । अस्य मध्ये भागैकक्षेपे जाता एकचत्वारिंशत् चतुच्छेदाः, यथा ( ४ } | द्वितीयाङ्के द्विच्छेदनिघ्न एको जातौ द्वौ । भागैकक्षेपे जातात्रय द्विच्छेदाः, यथा ( ३ ) । अत्र छेदयोश्चतुर्दिकयोरर्धापवर्तने जातैकद्विकयोर्विनिमये यथा ( | ) | "अंशच्छेदा" वित्यादिना पूर्वाङ्के गुणिते तदेव, पराङ्के द्विगुणास्त्रयो जाताः षट्, द्विगुणौ द्वौ जाताश्चत्वारः । समच्छे- ५ दत्वादेकचत्वारिंशन्मध्ये क्षेपे जाताः सप्तचत्वारिंशत् चतुश्छेदाः । शेषं विनष्टम्, यथा (४४) । अथाग्रेतनाङ्के यथा ( 3 ) । अत्र छेदेन त्रिभिर्निरूपद्वये जाताः षट्, भागैकक्षेपे जाताः सप्त त्रिच्छेदाः, यथा ( ३ ) । ततोऽत्र छेदादावित्यादिना चतुस्त्रिच्छेदयोर्विनिमये यथा {४४|१) | त्रिगुणाः सप्तचत्वारिंशत् जातमेकचत्वारिंशदधि (क) शतमेकम्, त्रिगुणाश्चत्वारो जाता द्वादश, यथा ( ११३ } | पराङ्के १० चतुर्गुणाः सप्त जाताऽष्टाविंशतिः, चतुर्गुणास्त्रयो जाता द्वादश' | समच्छेदत्वात् प्रागेकचत्वारिंशदधि (क) शतमध्येऽष्टाविंशतिक्षेपे जातमेकोनसप्तत्यधि (क) शतमेकं द्वादशच्छेदम्, यथा {} | शेषं विनष्टम् । अधोऽङ्केनोपर्यङ्कस्य भागे लब्धं चतुर्दश शेषं चैको द्वादशच्छेदः, यथा (१३) |
१६
अथ भागानुबन्धभागोदाहरणं रूपरहितभागानुबन्धि भागानुबन्धसहिताङ्कं १५ वक्तुं वृत्तमाह
सपादरूपं स(स्वः)दलार्धकं च, स्वस्य त्रिभागं खषडंशयुक्तम् । त्र्यंशं षडंशेन युतं स्वकीय - पादाधिकं ब्रूहि सवर्णयित्वा ॥ व्याख्या - पूर्व सचतुर्भागं रूपं वदलेति सपादरूपस्य यदर्थं स्यात् तेनाधिकं सखत्रिभागमिति सपादरूपस्य वार्धयुक्तस्य यस्त्रिभागस्तेन सहितम् । तथा स्वषडं - २० शेति सपादरूपस्य स्वार्धयुक्तसखत्रिभागस्य यः स्वीयः षडंशस्तेन युक्तं यत् रूपप्रतिबद्धभागोपदर्शनम् । अतो भागानुबद्धभागा यथा त्र्यंशमिति रूप यत्रयंशस्तं षडंशे (ने) ति त्र्यंशस्य यश्च षडंशस्तेन युतं त्र्यंशं स्वकीयपदेति षडंशयुतस्य त्र्यंशस्य यः पादः चतुर्भागस्तेनाधिकं त्र्यंशं सवर्णयित्वा ब्रूहीति
क्रिया । अत्रोर्ध्वगत्या प्रथमं शृङ्खलाकलित भागानुबन्धन्यासः, यथा । २५
अत्र सम्पूर्णीकरणवृत्तप्रक्रिया दर्श्यते । तत्र प्रथमं छेदाश्चत्वारस्त निघ्नं रूपमेकं जाताश्चत्वारः । एतन्मध्ये भागमेकं क्षिपेत् । जाताः पञ्च चतुश्छेदाः, यथा { ५ } | १ यथा {१३} । २ उपजातिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org