________________
विरचितम् ]
प्रभागजातिः - अथ द्वितीयपदव्याख्या-अन्येन द्रम्मस्याष्टमभागस्तस्य पञ्चमो लवस्तस्य त्र्यंशो यस्तस्याधं यत् तस्य षड्भागको दत्ता, न्यासो यथा {2/4/3|३|१) । एतेनैकोऽङ्कः साध्यः, तथाहि-अंशानामेकानामभ्यासं-गुणनं कुर्यात् । जात एक एव । छेदसंवर्ग च कुर्यात् , यथा-अष्टगुणाः पञ्च जाताश्चत्वारिंशत् , तथा चत्वारिंशद्गुणास्त्रयो जातं विंशत्यधिकं शतमेकम् , तथा विंशत्यधि(क)शतैकेन गुणितौ द्वौ ५ जाता चत्वारिंशदधि(क)द्विशती, अनया गुणिताः षद जातानि चत्वारिंशदधि(क)चतुर्दशशतानि । ततो जात एकश्चत्वारिंशदधि(क)चतुर्दशशतच्छेदः, यथा
६०
१
___ अथ तृतीयपदव्याख्या-एकस्य द्रम्मस्य योऽशस्तस्य योऽष्टमस्तस्य यश्चतुर्थों भागस्तस्य यो दशमो भागस्तं ददौ । अपरः न्यासः {9/2]|१० } । एतेनैकोऽङ्क: १० साध्यः, तथाहि-अंशानां एकानामभ्यासं कुर्यात् । जात एक एव । छेदसंवर्ग कुर्यात्, यथा सप्तगुणा अष्टौ जाता षट्पञ्चाशत्, तथा षट्पञ्चाशद्गुणाश्चत्वारो जाता चतुर्विंशत्यधि(क)द्विशती,अनया गुणिता दश जाता चत्वारिंशदधि(क)द्विशतोत्तरद्विसहस्री । एतच्छेदश्चैका, यथा {२३४० } । ततोऽमीषां त्रिपदजातानां त्रयाणामङ्कानां सवर्णनाय न्यासः {२४१४४०२३४० } । एतेन प्रभागजातकरणभागजा-१५ तिर्जाता । ततोऽशच्छेदादावित्यादिना द्वयोरंशच्छेदयुगयोश्छेदानां विनिमयेऽपवर्ते च यथा चतुर्विंशतेरपवर्ते शत एकः, स चत्वारिंशदधि(क)चतुर्दशशताधः । तथा चत्वारिंशदधि(क)चतुर्दशशतानां चतुर्विंशत्याऽपवर्ते जाता षष्टिः । स(सा) चत्वारिंशदधश्चतुःशताधः, यथा {१४१४४३ } । पष्टिगुण एको जाता षष्टिः । पष्टिगुणा चतुर्विंशतिर्जाता चत्वारिंशदधि(क)चतुर्दशशतानि, यथा {१६४० } । २० द्वितीयोऽङ्कगुणस्तथैव, सदृशच्छेदत्वात् । षष्टिमध्ये एकक्षेपे जाता एकषष्टिश्चत्वारिंशदधि(क)चतुर्दशशतच्छेदा, यथा {१४.} । शेषं विनष्टम् । अथाग्रेतनाङ्कसवर्णनाथ द्वयोरपि छेदयोः षष्टाधि(क)शतेनापवर्ते चत्वारिंशदधि(क). चतुर्दशानां जाता नव, तथा चत्वारिंशदधि(क)द्वाविंशतिशतानां जाता चतुर्दश । ततोऽशच्छेदावित्यादिना छेदविनिमये यथा-{१४४० | २२४६ } । २५ ततश्चतुर्दशगुणा एकषष्टिर्जाता चतुःपञ्चाशदधि(क)शताष्टकम् । तथा चतुर्दशगुणा चत्वारिंशदधि(क)चतुर्दशशती जाता विंशतिसहस्रा षष्ट्यधि(क)शतमेकं पराङ्के । नवगुण एको जाता नव । तथा नवगुणं चतुर्दशशतादि जाता विंशतिसहस्रादि, यथा { २०६६४।२०६६० } । तत उपरिमांशद्वयत्या(यो)गे जातं त्रिषण्यधि(क)शता
१ 'द्वाविंशतिशतादि' इति भाति ।
x
५ गणित.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org