________________
विरचितम् ] भिन्नधनम्
२५ - अथ द्वितीयोदाहरणन्यासः { ७३}। भागानुवन्धत्वात् छेदनित्यादिना यथा चतुर्गुणा द्वासप्ततिर्जाता अष्टाशीत्यधि(क)द्विशती सैका एकोननवतिद्विशती । अस्याश्च समविषमेत्यादिप्रक्रियया लब्धं पूर्व सप्तविंशतिर्द्विनिनेऽर्धित इति रीत्या जाताः सप्तदश । एतस्मिन्नशवर्गमूले सप्तदशके छिद्वर्गमूलेति छिद्वर्गश्चतुष्कस्तस्य मूलं द्वौ, ताभ्यां हृते । अयमर्थः-द्वाभ्यां सप्तदशकस्य भागे लब्धं ८ अष्टौ, शेषं ५ द्विच्छेद एको लब्धा चाष्टावुपरि योज्या यथा {{}। - तृतीयोदाहरणन्यासः{2}। अंशवर्गमूले एकस्य एकमिन्नेव स्थिते छिद्वर्गमूलेति छिद्वर्गो नवकस्तस्य मूलं त्रयः, तहते लब्धं रूपस्य तृतीयो भागो यथा {3} ।
चतुर्थोदाहरणं(ण)न्यासः {} । अत्राप्यंशवर्गमूल इति पूर्ववदेक एव वर्गमूलम् । तत्र छिद्वर्गमूलेति छिद्वर्गः चतुष्कस्तस्य मूलं द्वौ, ताभ्यां हृते १० तदेव लब्धं यथा {3}। एवं भिन्नवर्गमूलम् ॥
अथ भिन्नघने करणसूत्रं वृत्तार्धमाहछिदो घनेनांशघने विभक्ते, भिन्नं घनं गाणितिका वदन्ति ॥४१॥'
व्याख्या-अधस्तनाङ्कश्छित् तस्य घनेन सदृशाङ्कत्रिराशिघातलक्षणेन उपयांशस्तस्य घने सदृशत्रिराशिघातलक्षणे विभक्ते दशभागे मिन्नं घनं गाणि-१५ तिका-गणितचारिणो वदन्तीति सण्टङ्कः । __ अत्रोद्देशकवृत्ते एक भागानुबन्धजात्याश्रयं द्वितीय भागापवाहजात्याश्रयं तथा भागजात्याश्रयं याद्यपेक्षमुदाहरणद्वयमाह
घनं नवानां चरणाधिकानां - षण्णां तथा त्र्यंशविवर्जितानाम् । आचक्ष्व विद्वन् ! यदि वेत्सि पाटीं
षडंशकस्य त्रिलवस्य चैवम् ॥४२॥ स्पष्टम् । प्रथमोदाहरणस्य न्यासः {}। अत्र भागानुबन्धत्वात् छेदनिघ्नेत्यादिना सवर्णिते जाताः सप्तत्रिंशचतुश्छेदाः । अयमङ्कः स्थानत्रये विलिख्य यथा { ३४।३४३४} मिथो घाते यथा सप्तत्रिंशत् सप्तत्रिंशता गुणिता जाता एकोन-२५ सप्तत्यधि(क)त्रयोदशशती १३६९। इयमपि सप्तत्रिंशता गुणिता जाताः पञ्चाशत् सहस्राः षट्शती त्रिपञ्चाशच, यथा ५०६५३ । अयं राशिरंशघनस्तस्मिन्नंशघने छिदो घनेनेति छित् चतुष्कस्तस्य धनो यथा त्रयाणां चतुर्णा मिथो पाते जाता चतुःषष्टिरनेन विभक्ते च्छाया (त्वय?)मर्थः पञ्चाशत् सहस्रेत्यादि । प्रागंश१-२ उपजातिः।
४ गणित.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org