________________
२४ गणिततिलकम्
[श्रीपतिअत्रोद्देशकः श्लोकःप्राक् प्राप्तकृतिमूलानि, प्रचक्ष्वाशु विचक्षणः (?ण!)।
भिन्नानि परिकर्माणि, भवता विदितानि चेत् ॥' व्याख्या-पार भिन्नवर्गसूत्रे प्राकृम(तक)तिलब्धाः पादोनपञ्चकादीनां याः ५ कृतयो-वर्गा द्वाविंशतिनवषोडशच्छेदप्रभृतयस्तेषां मूलानि पादोनपश्चप्रभृतीनि शिष्यप्रत्ययनिमित्तं प्रचक्ष्वेति सण्टङ्कः । शेषं स्पष्टम् । अत्र प्रथमोदाहरणं यथा {२}। भागानुबन्धत्वात् छेदनिनेत्यादिना षोडशगुणा द्वाविंशतिर्जाता द्विपञ्चाशदधि(क)त्रिशती नवरूपयुता सैकषष्टित्रिशती षोडशच्छेदा । तदस सवर्णितांशवर्गस्य अंशवर्गमूलं इति सूत्रोक्त्या मूलानयनाय समविषमेत्यादिना पूर्वो१० क्तप्रक्रियया यथालब्धं रूपमेकोनत्रिंशत् । अस्यां द्विगुणार्धेन जाता एकोनविंशतिः । इयमंशवर्गमूलम् । तसिन् छिद्वर्गमूलेति । अत्र छित् छेदं षोडशकस्तस्य मूलं चत्वारस्तैर्हते । अयमर्थः-एकोनविंशतेश्चतुर्भिर्भागे लब्धं चत्वारः शेषाङ्कश्च चतुश्छेदास्त्रयस्तल्लब्धमुपरि चत्वारस्तस्याधस्त्रयस्तदधश्चत्वारो यथा {} । एते पोदोनपञ्चभिन्नवर्गमूलं जातं परमायाति चत्वारि रूपाणि चतुस्त्रिभागाधिकानि १५व्यवहारे पादोनपञ्च उच्यन्ते । एवं सर्वत्र ॥
द्वितीया रीतिरनुक्ताऽप्यत्र दर्यते यथा-द्वाविंशतिनवषोडशच्छेदाङ्कराशेर्भागानुवन्धरीत्या सवर्णितस्य जातमेकषष्टित्रिशतरूपस्य षोडशच्छेदस्यांशवर्गरूपस्य एतद्वर्गमूलेन पादोनपञ्चकलक्षणेन हृते यथा { .} । भागापवाहरीत्या जाता एकोनविंशतिश्चतुश्छेदा यथा { २९ }| ततः "कृत्वा परीवर्तनमंश"मित्या२० दिना विपर्ययं कृत्वा यथा {१६} । तत एकत्र सैकषष्टित्रिशती षोडशच्छेदा,
परत्र एकोनविंशतिच्छेदा यथा {१४}। (चतुर्णामङ्कानामपवृत्तिसहत्वादपवर्तनं यथा चतुर्णां चतुर्भागे जात एकः । षोडशानां चतुर्भागे जाताश्चत्वारः। सैकपष्टित्रिशतस्य शति(?)तमे भागे जाता एकोनविंशतिः, तथा एकोनविंशतिरेको
नविंशतितमे भागे जाता एको यथा {१४}} । ततः "सगुणनाभवो विधि" २५ इत्युक्त्या एकगुणा एकोनविंशतिश्चत्वारश्च गुणिते गुणको यातीति न्यायादेकको गतौ । चतुर्भिरेकोनविंशतेर्भागे दत्ते लब्धं चत्वारः, शेषं च चतुश्छेदास्त्रयो यथा {}। एतेन वर्गवद् भिन्नवर्गेऽपि भिन्नवर्गमूलेन हते भिन्नवर्गमूलमायाति । प्रसिद्धं चैतद् येनाङ्केन गुण्यते तेनैव ह्रियते तदा स एव लभ्यत इति स्थितम् । एवं सर्वत्र ज्ञेयम् ॥
१ अनुष्टुप् । २ प्रेक्ष्यतामेकविंशं पृष्ठम् ।
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org