________________
भिन्नवर्गमूलम्
वृत्ते उदाहरणचतुष्टयमाह -
पादोनानां पञ्चानां द्राक्, भो (सार्धा ?) ऽष्टानां वर्गं ब्रूहि । विद्वन् ! पार्टी चेज्जानासि, त्रिद्व्यंशाङ्कस्यापि क्षिप्रम् ॥ ३९ ॥ व्याख्या - स्पष्टम् | आद्यपादेनाद्यमुदाहरणं पादोनेति । न्यासः सूत्रे एकैकवेलमस्ति, परं वर्गः सदृशाङ्कद्वयेनैव स्यादिति वृत्तौ द्वयन्यासो दर्श्यते । यथा ५ (07/07) | अत्र भागापवाहजातित्वात् (३ | } | स्थानद्वयेऽपि चतुर्गुणाः सैकापनयना जाताः स्थानद्वये चतुश्छेदा एकोनविंशतिरंशा यथा । एषां कृतिरेकोनविंशत्या एकोनविंशतिगुणनादेव (क ) त्रिषष्ट्यधि (क) त्रिंशदूपा (१) । ततो हरराशिचतुष्कलक्षणः, तस्य वर्गसदृशेन द्वितीयचतुष्केण गुणनात् षोडशकरूपस्तेन । अयमर्थः - अनेन षोडशकेन एक [त्रि ] षष्ट्यधि (क) त्रिशत्या भागे लब्धं द्वाविंशतिर्नव १० षोडशभागा यथा (२) ।
विरचितम् ]
द्वितीयोदाहरणमाह - सार्धाष्टेति । न्यासः (६) भागानुबन्धत्वात् छेदनिभेत्यादिना स्थानद्वयेऽपि द्विगुणा अष्टौ जाताः सप्तदशांशाः । एषां कृतिः सप्तदशभिः सप्तदशगुणनात् एकोननवत्यधि ( क ) द्विशती । हरराशिश्च द्वौ तस्य वर्गों द्विकेनाहतत्वाच्चतुष्कलक्षणस्तेन हता । इदं तत्त्वम् । चतुष्केणैकोननवत्य- १५ धि (क) द्विशती तस्य च चतुर्थो भागो यथा ( 3 ) |
तृतीयचतुर्थे एकपदेनाह — त्रियंशाङ्कस्येति । तृतीयोदाहरणन्यासः ( 2 | 3 } | अत्र भागजातिरेव ततः अंशकृतिरेकगुण एक एव । वर्गहरराशिस्त्रिलक्षणः, तस्य वर्गस्त्रिगुणत्वान्नव तेन विहृतौ लब्धं रूपस्य नवमो भागो यथा ( 2 ) |
,
२३
अथ चतुर्थोदाहरणन्यासः ( 2 | 2 } | अत्रापि भागजातित्वादंशकृतिरेक एव । २० हरराशीति हरराशिद्विलक्षणः, तस्य वर्गो द्विहतत्वात् चतुष्कः तेन विक (हृ?) त्वा लब्धं भिन्नवर्गे रूपस्य चतुर्थो भागो यथा ( : ) । एवं भिन्नवर्गः समाप्तः ॥ भिन्नवर्गमूलम् -
Jain Education International
भिन्नवर्गमूले करणसूत्रं वृत्तार्थमाह
छिद्वर्गमूलेन हृतेऽंशवर्ग-मूले विभिन्न कृतिमूलमाहुः । व्याख्या-छेदनं छित्-अधोऽङ्कराशिः तस्य वर्गः समद्विराशिघातस्तस्य यन्मूलं - बीजं तेन हते - विभाजिते ऽंशवर्गमूले - उपर्यङ्कवर्गमूले विभिन्नं कृत (ति) - मूलं - मिन्नवर्गमूलमाहुः, बुधा इति शेषः ।
१ विद्युन्माला । २ 'एकषष्ट्यधिकत्रिशतीरूपा' इति भाति । ३ इन्द्रवज्रा ।
For Private & Personal Use Only
२५
www.jainelibrary.org