________________
विरचितम् ]
भिन्नभागहार:
भिन्नभागहारःभिन्नभागा(ग)हारे करणसूत्रं वृत्तमाह
कृत्वा परीवर्तनमंशहारयो
हेरस्य तद्वत् कुलिशापवर्तनम् । हरांशयोः सङ्गुणनाभवो विधि
स्ततो विधेयो नियतं जिहीर्षता ॥' व्याख्या-जिहीर्षता-भागहारविधि विधित्सता । कृत्वेत्यादि अंशहारौ द्वावप्यङ्कौ स्तः, परं तयोरंशहारयोरङ्कयोर्मध्ये अग्रेतनो हरो वाच्यः । ततस्तस्य हरयोपर्यंशहारयोरुपयंशरूपस्याधो हाररूपस्य चापवर्तनं कृत्वा पूर्व यथाप्राप्त भागानुबन्धादिविधिं कृत्वा द्वितीयाङ्कस्थाने उपर्योऽधो न्यस्यः, अधोऽङ्कचो-१० परि स्थाप्यः । ततः पक्षद्वयेनाङ्कचतुष्टयस्य कुलिशतां-वज्रतां प्राप्तस्य यदि प्राच्यः परो वाऽङ्कोऽपवर्तनमर्धादिच्छेदं सहते तदा तद्वत् कुलिशापवर्तनं कृत्वा सगुणनेति पूर्ववद् भागवधे-हरताडनेन हृते भार(ग)हारफललब्धये नियतंनिश्चितं विधेयमिति सण्टङ्कः ॥ अत्रोद्देशकवृत्ते उदाहरणचतुष्कमाह
दश सचरणा भक्ताः षड्भिस्त्रिभागसमन्वितै
गणक ! विधिवत् सार्धाशीतिः शरैस्त्रिलवोनितैः । दलमपि हृतं षड्भागेन त्रिभिश्चरणो हृतो
भवति किमिति ब्रूहि क्षिप्रं हरो विदितो यदि ॥ व्याख्या हे गणक ! यदि हरो-भागहारविधिर्विदितस्तदा क्षिप्रं ब्रूहि । २० दश सचरणाः-सचतुर्भागा दश त्रिभागसमन्वितैः षड्भिर्भक्ताः किं भवेदिति । प्रथमोदाहरणं न्यासो यथा {1} । अत्र भागानुबन्धजातौ "छेदनिधेषु रूपेषु रूपं क्षिपेत्" इत्यादिना प्रागके चतुर्गुणा दश चत्वारिंशत् रूपक्षेपे एकचत्वारिंशत् चतुश्छेदाः, परत्र त्रिगुणाः षद अष्टादश रूपए(पै?)कक्षेपे जाता एकोनविंशतिस्त्रिछेदाः, यथा { ४१ | °3} । ततोऽपरः सवर्णितो हरो वाच्यस्ततस्तदस्य हरस्यांशहा- १५ रयोः परीवर्तनं कृत्वा-विपर्ययमेकोनविंशतिमधो नीत्वा त्रींश्योपरि कृत्वा, यथा { ४१/१३} ततोऽपवर्तनसहभावाद् यथास्थिता एवाङ्काः । अथ प्रागिव भागवधे त्रिगुणा एकचत्वारिंशत् जातं त्रयोविंशत्यधि(क)शतं १२३ । तत्र हरताडेति
१ इन्द्रवंशा (१)। २ हरिणी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org