________________
गणिततिलकम्
[श्रीपतिकस ताडनेन-गुणितनिष्पन्नाङ्केन कृ(ह)ते-दत्ते भागे लब्धं तद् गुणनाफलं स्यादिति क्रिया ॥ अत्रोद्देशकवृत्ते उदाहरणद्वयमाह
सदलत्रितयं गुणितं सुमते!
त्रिलवेन युतैर्नवभिः कथय । गणितं यदि वेत्सि तदा चरणो
दलसङ्गुणितश्च भवेन्ननु किम् ? ॥' व्याख्या-सदलेति सार्धत्रितयमध्युष्टलक्षणं त्रिलवेन-त्रिभागेन युतैर्नवभिगुणितं किं भवेदिति प्रश्नः । स प्रपञ्चयिष्यते । यथा न्यासः {818} । सर्वत्राङ्क१० विधौ भागानुबन्धेष्वङ्के प्राग्भागानुबन्धजातिविधि विधायान्यो विधिरेवं भागापवाहसंयतेष्वङ्के तदुक्तविधिं कृत्वाऽन्यो विधिः कार्य इति हृदयम् । यथान भागानुबन्धत्वात् “छेदनिनेषु रूपेषु भागं क्षिपेत्" इति युक्त्या प्रागके द्विगुणास्त्रयो जाताः षट्, सैका जाताः सप्त द्विच्छेदाः । तथा परत्र त्रिगुणा नव जाताः
सप्तविंशतिः, सैका अष्टाविंशतिस्त्रिच्छेदाः । ततोत्र सूत्रोक्तभागवधे इति भागैः १५ सप्तभिर्गुणिता अष्टाविंशतिर्जाताः षण्णवत्यधि(क)शतम् । तस्मिन् हरताडनेति हरेण द्विलक्षणेतरस्य त्रिरूपस्य ताडनम् , जाताः षट्, तेन प्राक् षण्णवत्यधि(क)शते कृ(ह)ते लब्धं द्वात्रिंशत् अर्धेन चतुर्णा षण्णां चापवर्तने द्वौ त्रयः क्रमादधोऽधो लेख्याः । यथाक्रमं न्यासः {३३} । व्यवहारेण त्रिभागोनास्त्रयस्त्रिंशत् ॥ ___ अथ द्वितीयोदाहरणं यथा-चरणो दलेति । चरणो-रूपस्य चतुर्थों भागो २० दलेन-रूपार्धेन सङ्गुणितः किं भवेदिति । न्यासो यथा-{:/'} । यदोपरि
रूपाणि स्युस्तदा भागानुवन्धजातिः । अत्र तु द्वयेऽपि भागा इति कृत्वा भागजातिरियम् । ततोऽत्र भागानुबन्धोक्तविधिनहि । ततो भागवधे भागेनैकेन भागस्यैकस्य वधे-गुणने एक एव । तत्र हरताडेति हरेण चतुष्केण द्विकस्य
ताडनम् , जाता अष्टौ । अनेनोपरिस्थितैकत्वाद् भागं हर्तुं न शक्यत इति यथा२५ स्थित्योपर्येकस्तदधोऽशहरयोरुपयंशरूपस्याधो हररूपस्य चाष्टौ स्थाप्या यथालब्धं न्यासः {2} | व्यवहारेण द्रम्मैकाष्टभागः सार्धलोष्टिकद्वयरूपो जातः । एवं सर्वत्र । भिन्नप्रत्युत्पन्नः समाप्तः ॥
१ तोटकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org