________________
गणिततिलकम्
[श्रीपतिभिन्नव्यवकलितम्भिन्नव्यवकलिते करणसूत्रं वृत्तार्धम्कृतसमहरराश्योरंशविश्लेषमाहु
य॑वकलितविधाने ज्ञातपाटीनिबन्धाः॥३३॥ ५ व्याख्या-भिन्नानां-रूपखण्डानां षड्भागादीनां व्यवकलितोपायमाहकृतसमेति । व्यय आयमपेक्षते, ततो राशी-आयव्ययराशी एतौ कृतसमहरौ -विहितसमानच्छेदौ, ततो द्वन्द्वे तयोः कृतसमहरराश्योर्मध्ये य आयराशिस्तसाद् व्ययराशिजातानामंशानां षड्भागादिसमुत्थिताङ्कानां विश्लेष-पातं पश्चाच्छेषमकं व्यवकलितधनमाहुः । शेषं स्पष्टम् ॥ १० अत्रोदेशवृत्तेनोदाहरणद्वयमाह
एकस्माद् भो द्रम्मतः प्रोज्झ्य विद्वन् !
षड्भागाधे त्र्यंशकान् ब्रूहि शेषम् । सार्धं व्यंहिं साष्टभागं तथैकं
त्यक्त्वा त्र्यंशेनान्वितद्रम्मषट्कात् ॥ ३४॥ १५ व्याख्या-एकस्माद् द्रम्मतो-रूपकाद् द्रम्मषड्भागं तथा द्रम्माध तथा व्यंशकं-तृतीयं द्रम्मभागं त्यक्त्वा शेषं ब्रूहीति एकमुदाहरणम् । अस्य न्यासः । पूर्व यस्माद् व्ययः करिष्यते तद्रूपं न्यस्य पूर्णानि हरविरहितत्वादेकश्छेदः कल्प्यः , शेषाणां भागानां तस्य पुरो न्यासो यथा {३/६/३/३} । अत्र कृतसमहरराश्यर्थं प्रथमषड्भागस्याधस्य सदृशच्छेदताकृतये "अंशच्छेदौ" इत्यादिप्रागुक्तच्छे. २० दविनिमयेन गुणनेन जातौ द्वौ द्वादशच्छेदौ उपरि च द्वौ षट् च । ततः समहरत्वाद् द्विमध्ये षट्क्षेपे जाता अष्टौ अधश्च द्वादश च्छेदाः। प्राग् राशिषट्कश्छेदश्च भज्यते उक्तार्थत्वात् , यथा {१६} । ततोऽग्रेतनाङ्के व्यंश{3}योजनार्थ पुनरपि "अंशच्छेदौ" इत्यादिना छेदविनिमयेन गुणनया जाताः समानाः, उभयत्र षट्त्रिं
शल्लक्षणाश्छेदाः, यथा {३६३६। ततः समानच्छेदत्वात् अधः षट्त्रिंशद् द्विक२५ त्वादुपरि चतुर्विंशत्यंशानां मध्ये द्वादशसंयोगे जाताः षट्त्रिंशत् , अधोऽपि षट्त्रिंशत् । एष व्ययाङ्कराशिः संयोजितः प्राग् राशिर्याद(?)शलक्षणच्छेदश्च भज्यते, यथा {३६ } । तत आयराशेः समहरत्वकृते पुनरपि "अंशच्छेदौ" इत्यादिना छेदविनिमये गुणनया यथा {१.३६} । अत्र द्वावप्यायराशी समानषट्त्रिंशच्छेदो
१ मालिनी। २ शालिनी ।
31१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org