SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] भिन्नसङ्कलितम् व्याख्या-रूपत्रयं पूर्णं चतुर्थरूपस्यार्धं तस्साधो देयम् । षट् पूर्णानि रूपाणि, अस्थाध एकः छेदकः कल्प्यः। तथा नव रूपाणि पादहीनानि-एकभागहीनानि । तथा सप्त रूपाणि व्यंशान्वितानि-त्रिभागान्वितानि । यथा न्यासः{81810513}। अत्र प्राग् भागानुबन्धजात्युक्तविधिः कार्यः, यथा त्रिशत्यां "रूपग(गु)णच्छेदसङ्गुणः सांशः," यथाज्ञ सार्धत्रयन्यासे छेदेन त्रिकेण गुणितो रूप- ५ गणत्रिकलक्षणो जाताः षट् , सांश अधस्तेनैकसहिताः षट् जाताः सप्त, यथा{}। अग्रेतनाकैकच्छेदषट्कयोजनार्थ"मंशच्छेदा"वित्यादिना छेदसादृश्ये द्विद्विलक्षणे ज्ञाते उपर्यशानां{२} सप्त द्वादशानां योगे जाता एकोनविंशतिर्द्विच्छेदा प्राग राशिनिवृत्तः। द्विकाधो द्विकोऽपि जातो यथा {१६} । ततोऽग्रेतनाङ्कनवपादहीनलक्षणयोजनायां प्राग् भागापवाहजातिः कार्यः, यथा-"भागापवाहनविधौ . हरनियरूपे राशेलवानपनयेत्" इति वक्ष्यति {0} । ततो हरेणात्र चतुष्केण गुणिते रूपे नवलक्षणे जाताः षट्त्रिंशत् । ततस्तसात् षट्त्रिंशद्रूपाद् राशेर्लवानपनयेत् यथाऽत्रैकापनयने जाताः पञ्चत्रिंशत् । एको भज्यते जाताश्चतुश्छेदाः पञ्चत्रिंशत् , यथा {३५} । ततोऽशच्छेदौ छेदनेति विधिकरणायात्र छेदयोर्द्विचतुष्करूपयोरथैनैकद्विलक्षणेनापवतं कृत्वा छेदाध १५ एको द्वौ च न्यस्यौ, यथा { ९३५} । छैदेन द्विलक्षणेन गुणितौ द्वौ जाताः चत्वारस्तथा द्विगुणैकोनविंशतिर्जाता अष्टत्रिंशत्, परत्र एकगुणं तादृश्ये(शे?) च चतुश्छेदाः पञ्चत्रिंशत्, यथा {38|३४} । ततः सदृशहरत्वालब्धाष्टत्रिंशन्मध्ये पञ्चत्रिंशत्क्षेपे जातास्त्रिसप्ततिश्चतुश्छेदाः प्रारराशिरेकलक्षणच्छेदश्च भन्नः। एतेन यत्राङ्कोऽपवर्त सहते तत्राङ्कमपवान्योन्यं लिखित्वा छेदाभ्यामपवर्तितच्छेदाभ्यां २० विहन्यादिति दर्शितम् । न्यासो यथा-{} । ततोऽग्रेतनाङ्कत्र्यंशान्वितसप्तयोजनार्थ भागानुबन्धजात्युक्तरूपगणेत्यादिना त्रिगुणाः सप्त जातैकविंशतिः, अंशैकक्षेपे जाता त्रिच्छेदा द्वाविंशतिः, यथा{ २३}। ततोऽशच्छेदावित्यादिना त्रिचतुष्कच्छेदाभ्यां मिथो गुणिते समानद्वादशकच्छेदे हरलक्षणे जाते उपरि त्रिगुणत्रिसप्तत्या जातद्विशत्येकोनविंशतिलक्षणानां लवानां मध्ये चतुर्गुणद्वाविंशत्या २५ जाताष्टाशीतिलवक्षेपे जाता सप्ताधिका त्रिशती, अधो द्वादशच्छेदाः, प्राग् राशिस्त्रिकच्छेदश्च निवृत्तः। ततः सप्ताधि(क)त्रिशतस्याधो द्वादशभिश्छेदत्वाद् भागे लब्धं पूर्णानि पञ्चविंशतिरूपाणि सप्त द्वादशभागा यथा {२५} । एवं सर्वत्र । भिन्नसङ्कलितं समाप्तम् ॥ १ चतुर्विंशतितमोऽयं नियमः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003174
Book TitleGanittilakam Savrtuttikam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages214
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy