________________
३१२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
जान भुंजए माणुस्सए सुहे कच्छ णासधेज्जे य कच्छे इत्यदेवे महिडीए जाव पलिओवमट्ठिईए परिसर से एएण गोमा ! एवं बुच्चइ कच्छे विजए कच्छे विजए जाव णिच्चे ॥सू० २६ ॥
"
छाया-क खलु भदन्त ! जम्बूद्वीपे द्वोघे महाविदेहे वर्षे कच्छो नाम विजयः प्रज्ञप्तः ?, गौतम ! सीताया महानद्या उत्तरेण नीलवतो वर्षपर्वतस्य दक्षिणेन चित्रकूटस्य वक्षस्कापर्वतस्य पश्चिमेन माल्यवतो वक्षस्कारपर्वतस्य पौरस्त्येन अत्र खल जम्बूद्वीपे द्वीपे महाविदेहे वर्षे कच्छो नाम विजयः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतिचीनविस्तीर्णः पल्यङ्कसंस्थानसंस्थितः गङ्गा-सिन्धुभ्यां महानदीभ्यां वैताढचेन च पर्वतेन षड् मागप्रविभक्तः षोडश योजनसहस्राणि पञ्च च द्विनवतानि योजनशतानि द्वौ च एकोनविंशतिभागौ योजनस्य आयामेन द्वे योजनसहस्रे द्वे च त्रयोदशोत्तरे योजनशते किञ्चिद्विशेषाने विष्कम्भेणेति ! कच्छस्य खलु विनयस्य बहुमध्यदेश भागे अत्र खलु वैताढ्यो नाम पर्वतः प्रज्ञप्तः, यः खलु कच्छं विजयं द्विधा विभजमानः २ तिष्ठति, तद्यथा- -दक्षिणार्द्ध कच्छमुत्तरार्द्ध कच्छं चेति, क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे दक्षिणार्द्धकच्छो नाम विजयः प्रज्ञप्तः ?, गौतम ! वैतान्यस्य पर्वतस्य दक्षिणेन सीताया महानद्या उत्तरेण चित्रकूटस्य वक्षस्कारपर्वतस्य पश्चिमेन माल्यaat aardar पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे दक्षिणार्द्धकच्छो नाम विजयः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीन प्रतीचीनविस्तीर्णः अष्ट योजनसहस्राणि द्वे च एकसप्तते योजनशते एकं च एकोनविंशतिभागं योजनस्य आयामेन द्वे योजनसहस्रे द्वे च त्रयोदशोत्तरे योजनशते किञ्चिद्विशेषोने विष्कम्भेण पल्यङ्क - संस्थानसंस्थितः, दक्षिणार्डकच्छस्य खलु भदन्त ! विजयस्य कीदृशक आकार भावप्रत्यवतारः प्रज्ञप्तः १, गौतम ! बहुसमरमणीय भूमिभागः प्रज्ञप्तः, तद्यथा - यावत् कृत्रिमैश्चैव अकृत्रिमैश्चैव । दक्षिणार्द्धकच्छे खलु भदन्त ! विजये मनुजानां कीदृशक आकारभावप्रत्यवतारः प्रज्ञप्तः ?, गौतम ! तेषां खल मनुजानां षड्विधं संहननं यावत् सर्वदुःखानामन्तं कुर्वन्ति । क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदे वर्षे कच्छे विजये वैताढ्यो नाम पर्वतः ?, गौतम ! दक्षिणार्द्ध कच्छ विजयस्य उत्तरेण उत्तरार्द्धकच्छस्य दक्षिणेन चित्रकूटस्य पश्चिमेन माल्यवतो वक्षस्कारपर्वतस्य पौरस्त्येन अत्र खलु कच्छे विजये वैताढ्यो नाम पर्वतः प्रज्ञप्तः, तद्यथा- प्राचीनप्रतीचिनाऽऽयतः उदीचीदक्षिणविस्तीर्णः द्विधा वक्षस्कारपर्वतौ स्पृष्टः- पौरस्त्यया कोट्या यावद् द्वाभ्यामपि स्पृष्टः भरतवैताढ्यसदृशकः नवरं द्वे बाहे जीवा धनुष्पृष्ठं च न कर्तव्यम्, विजयविष्कम्भसदृशः आयामेन, विष्कम्भ उच्चत्वमुद्वेधस्तथैव च विद्याधराभियोग्यश्रेण्यौ तथैव नवरं पञ्चपञ्चाशदुरविद्याधर नगरावासाः प्रज्ञप्ताः, आभियोग्यश्रेण्यां अत्तराह्यः श्रेणयः सीतायाः ईशानस्य शेषाः शक्रस्येति, कूटानि - सिद्धं १ कच्छं २ खण्डक ३ माणि ४ वैताढ्य ५ पूर्ण ६ तमिस्रगुद्दा ७ कच्छं ८ वैश्रवणं ९ वा वैता ढये भवन्ति कूटानि |१| का खलु भदन्त ! जम्बूद्वीपे द्वीपे महा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org