________________
८४८
जम्बूद्वोपप्रप्तिसूत्रे छाया-ततः खलु स भरतो राजा गङ्गायाः महानद्या पाश्चात्ये कूले द्वादशयोजनायाम नवयोजनविस्तीर्ण यावत् विजयस्कन्धावारनिवेश करोति, अवशिष्टं तदेव यावत् निधिरत्नानाम् अष्टमभक्तं प्रगृह्णाति, ततः खलु स भरतो राजा पौषधशालाया यावत् निधिरत्नानि मनसि कुर्वन् तिष्ठतीति, तस्य च अपरिमितरक्तनयनाः ध्रुवाक्षया व्ययाः सदेवाः लोकोपचयंकराः उपगताः नवनिधयो लोकविश्रुतयशस्काः, तद्यथा-नै सर्पः १, पाण्डुकः२, पिङ्गलकः ३, सर्वरत्नम् ४, महापद्यम् ५, कालश्च ६ महाकालः ७, माणवको महानिधिः ८, शङ्खः ९ ॥१॥ नैस निवेशा: ग्रामाकर नगरपत्तनानां च । द्रोणमुखमडम्बानां स्कन्धावारापण गृहाणाम् १ गणितस्य चोत्पत्तौ मानोन्मानस्य यत्प्रमाण च । धान्यस्य च बीजानां चोत्पत्तिः पाण्डुके भणिता
सर्व आभरणविधिः पुरुषाणां यश्च भवति महिलानाम् ।
अश्वानां च हस्तिनां च स पिङ्गलकनिधौ भणितः ३॥ रत्नानि सर्वरत्ने च चतुर्दशापि वराणि चक्रवर्तिनः उत्पद्यन्ते एकेन्द्रियाणि पञ्चेन्द्रियोणिच४॥ वस्त्राणां चोत्पत्तिःनिष्पत्तिश्चैव सर्वभक्तीनाम् । रङ्गानां च प्रक्षालनानां सर्वा चैषा महापद्मे ५॥
काले कालज्ञानं सर्व पुराणं च त्रिष्वपि वशेषु । शिल्पशतं कर्माणि च त्रिणि प्रजायाः हितकराणि ६॥ लोहस्योत्पत्ति भवति महाकाले चाकराणाम् ।
रूप्यस्थ सुवर्णस्य च मणिमुक्ताशिला प्रवालानाम् ७ ॥ योधानां चोत्पत्तिरावरणानां च प्रहरणानां च । सर्वा च युद्धनीति माणवके दण्डनीतिश्च ८॥
नृत्यविधिः नाटकविधिः काव्यस्य च चतुर्विधस्योत्पत्तिः । शङ्ख महानिधौ त्रुटिताङ्गानां च सर्वेषाम् ॥९॥ चक्राष्टप्रतिष्ठानाः कष्टोत्सेधाश्च नव च विष्कम्भाः। द्वादश दोघी मञ्जषावत्संस्थिताः जाह्नव्याः मुखे १०॥ वैडूर्यमणिकपाटाः कनकमयाः विविधरत्नप्रतिपूर्णाः । शशि सूर चक्रलक्षणा अनुसम वदनोत्पत्तिकाः ११ ॥ पल्योपस्थितिका निधिसदृग्नामानः तत्र च खलु देवाः। येषां ते आवासा अकेया आधिपध्याय १२|| पते नव निधिरत्नाः खलु प्रभूत धनरत्न सञ्चयसमृद्धाः । ये वशमुपगच्छन्ति भरताधिप चक्रवर्तिनाम् १६॥
ततः खलु स भरतो राजा अष्टमभक्ते परिणमति पौषधशालातः प्रतिनिष्कामति, एवं मज्जनगृहप्रवेशो यावत् श्रेणि प्रश्रेणि शब्दपनया यावत निधिरत्नानाम् तष्ठाहिकां महामहिमां करोति, ततः खलु स भरतो राजा निधिरत्नानाम् अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां सुषेणं सेनापतिरात्न शब्दयति शब्दयित्वा एवम् अवादीत् गच्छ खलु भो देवानुप्रिया !गङ्गायाः महानद्याः पौरस्त्यं निष्कुटं द्वितीयमपि सगङ्गासागररांगरीमर्यादं समविषमनिष्कुटानि च 'ओअवेहि' साधय साधयित्वा एतामाक्षप्तिको प्रत्यर्पय इति । तत; स्खलु स सुषेणः तदेव पूर्ववणित भणितव्यं यावत् साधयित्वा ताम् आज्ञाप्ति का प्रत्यर्षयर्यात प्रतिविसर्जयति यावत् भोगभोगान् भुजानो विहरति । ततः खलु तद्दिव्यं वक्ररत्नम् अन्यदा कदाचिद् आयुधगृहशालानः प्रतिनिष्कामति प्रतिनिष्क्रम्य अन्तरिक्ष प्रतिपन्नं यक्ष सहस्त्र सपरिवृत्त दिव्यत्रु यावत् आपूरयदिव विजयस्कन्धावारनिवेशं णध्यमध्येन निर्गच्छति दाक्षिणात्य प्राश्चात्याँ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org